________________
पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता।
(२७५) (सतेर्णित ) सार्थः॥ (सुबोधिनी)-सतेर्णित् ॥ थणप्रत्ययमाह-णित्त्वाइद्धिः। स गतौ । सार्थः। 'सार्थो वणिक्समूहे स्यादपि संघातमात्रके ।' इति मेदिनी ॥
(निशीथादयः) निशीथः। तीर्थः। रिचिर विरेचने। रिक्थम् । पिचिर क्षरणे। सिक्थम् । पृष सेचने । पृष्ठम् । गूथम् । यु मिश्रणे । यूथम् । प्रोथः॥
( सुबोधिनी)-निशीथादयः॥थक्प्रत्ययान्ता निपात्यन्त शीङ स्वानिशीथः। 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके।' इति मेदिनी ॥ तु प्लवनतरणयोः । ऋत इरितीर । 'वार्वि हसे' इति दीर्घः । तीर्थम् । “तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्वीरजःसु च विश्रुतम् ॥” इति विश्वः॥रिचिर विरेचने। चोः कुरिति कः । रिक्थम् । 'रिक्थमृक्थं धनं वसु।' इत्यमरः ॥ पिचिर क्षरणे । सिक्थम् । 'सिक्थो भक्तपुलाक ना मधूच्छिष्ट नपुंसकम्।' इति मेदिनी॥ पृष सेचने। पृष्ठम् । 'पृष्ठं तु चरमं तनाः।' इत्यमरः।। 'पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे।' इति मेदिनी ॥ स्तोत्रविशेषेऽपि पृष्ठम् । पृष्ठैः स्तूयत इत्यादौ तथा निर्णयात्॥ गु पुरीषोत्सर्गे। निपातनादीर्घः। गूथं विष्ठा ॥ यु मिश्रणे । निपातनादीर्घः । यूथम् । 'यूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्।'इति विश्वः॥ यूथं तदग्रसरगर्वितकृष्णसारम। इति रघुवंशे ॥ प्रुङ गतौ । निपातनाद् गुणः । प्रोथः। 'प्रोथोऽस्त्री हयघोणायां ना कट्यामध्वगे त्रिषु।' इति मेदिनी। 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ॥'
(तत्त्वदी०)-निशीथादय इति॥रात्रावर्धरात्रे च निशीथः॥तीर्थमिति॥"तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजस्सु च विश्रुतम् ॥” इति विश्वः॥रिक्थमिति॥ रिक्थमृक्थं धनं वसु॥'गूथं विष्टा।यूथं समूहः॥ प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते।।'
(स्फायादे रक् ) स्फारम् । तञ्चु संकोचने।तक्रम् । वञ्चु वक्रः। शक्रः। क्षिप्रम् । क्षुद्रः। चक्रम् । चदि चन्द्रः। उन्दी उन्द्रः। श्विता श्वित्रम् । वृत्रः । वीरः। नीरम् । छिद्रम् । उस्रा । शुभ्रम् । . . (सुबोधिनी)- स्फायादे रक् ॥ रक्प्रत्ययमाह-कित्त्वाद्गुणो न । स्फायी वृद्धौ । हबक्त्यारितीन । 'यवयोर्वसे इति यलोपः। स्फारः । 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुबुद।' इति मेदिनी॥तञ्चु संकोचने । न्यवादित्वात्कुत्वम्। नो लोप इति नलोपः । तक्रम् । 'तकं ह्युदश्विन्मथितं पादाम्बर्धाम्बु निर्जलम्।' इत्यमरः ॥ वञ्चु प्रलम्भने । वक्रः। 'वक्रः स्यात्कुटिले क्रूरे पुटभेदे शनैश्चरे।' इति विश्वः ॥ शक्ल शक्तौ । शक्रः। 'शक्रः पुमान्देवराजे कुटजार्जुनभूरुहोः।' इति मेदिनी ॥ क्षिप प्रेरणे । क्षिप्रम्॥क्षुदिर् संपेषणोक्षुद्रः। क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत्। इति मदिनी ।। चदि आह्लादने।इँदित इति नलोपाभावः। चन्द्रः । 'हिमांशुश्चन्द्रमाश्चन्द्रः' इत्यमरः।।