________________
(२७६)
सिद्धान्तचन्द्रिका। पूर्वकृदन्ते उणादयः ] पचाद्यप्रत्यये चन्दोपि। 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः।' इति शब्दार्णवः ॥ उन्दी क्लेदने । उन्द्रः जलमार्जारः ॥ श्विता वर्णे । श्वित्रं कुष्ठम् । वृतु वर्तने । वृत्रः। 'वृत्रो रिपौध्वनौ ध्वान्ते शैले चक्रे च दानवे।'इति विश्वः॥अज गतिक्षेपणयोः। अजेरिति वीआदेशः। वीरः॥णी प्रापणे। नीरम्॥छिदिर द्वैधीकरणे । छिद्रम् ॥ वस निवासे।यजामिति संप्रसारणम् । घसादेः ष इति षत्वे प्राप्त निषेधमाहारपरसृपिमृजिस्पृशिस्पृहिसवनादीनां सस्य षत्वं नेति। उस्रः। 'उस्रो वृषे च किरणे उस्रा धेनुपवित्रयोः।' इति मेदिनी॥'माहेयी सौरभेयी गौरुस्रा माता च सृङ्गिणी।'इत्यमरः।। शुभ दीप्तौ । शुभ्रम् । 'शुभं स्यादभ्रके क्लीवमुद्दीप्तश्वेतयोस्त्रिषु।' इति मेदिनी ॥ (तत्त्वदी०)-स्फायादेरिति॥उन्द्रो जलचरः । श्वित्रं कुष्ठम् । उस्रो रश्मिः।उस्रा गौः।। ( अमितम्योर्दीर्घश्च ) आम्रः । ताम्रम् ॥ (सुबोधिनी)-अमितम्योर्दीर्घश्च ॥ आभ्यां रकू स्यादुपधाया दीर्घश्च॥अम गत्यादौ । आम्रः। 'आम्रचूतो रसालोऽसौ' इत्यमरः॥ तमु काङ्क्षायाम् । ताम्रम् ॥
(निद्रादयः) णिदि निद्रा । अर्द आर्द्रम् । शुच शूद्रः। दुःखेनेयते दूरम् । कृती कृच्छम् । क्रूरः॥ रोदयतीति रुद्रः। ज्या वयोहानौ। जीरः॥
(सुबोधिनी)-निद्रादयः॥रक्प्रत्ययान्ता निपात्यन्त-णिदि कुत्सायाम् । नलोपो निपातनात् । निद्रा । 'स्यान्निद्रा शयनं स्वापः' इत्यमरः ॥ अर्द गतौ । अर्दी? निपातनात् । आर्द्रा । 'आर्द्रा नक्षत्रभेदे स्यास्त्रियां क्लिन्नेऽभिधेयवत्।' इति मेदिनी॥ शुच शोके । चस्य दो धातोर्दीर्घश्च निपात्यते ॥ शूद्रः॥इण गतौ दुःपूर्वः धातोर्लोपी निपातनात् । रिलोपो दीर्घश्चेति रलोपपूर्वेदीघौं । दुःखेनेयते प्राप्यते इति दूरम्॥कृती छेदने । कृतेः कृच्छ्र क्रू इत्येतावादेशौ निपातनात् ।'कृच्छ्रमाख्यातमाभीले पापसंतपनादिनोः।' इति विश्वः ॥ 'स्यात्कष्टं कृच्छ्रमाभीलम्।' इत्यमरः ॥क्रूरः । 'क्रूरस्तु कठिन घोरे नृशंसे चाभिधेयवत्।' इंति विश्वः ॥ 'नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः' इत्यमरः। रुदिर अश्रुविमोचने । ञ्यन्तःोरोदयतीति । रिति जिलोपः । रुद्रः॥ जु गतौ । ईकारो निपातनात् । जीरः । ज्या वयोहानौ । अस्माद्रप्रत्यये ग्रहामितिसंप्रसारणे च कृते जीर इत्येके । 'जीरः खड्ग वणिग्द्रव्ये' इति विश्वः ॥ 'जीरस्तु खड्ने' इति मेदिनी ॥
(स्वादेः क्रः) सुरः । षूङ प्राणिप्रसवे । सूरः । धीरः। गृध्रः॥ (सुबोधिनी)-स्वादेः क्रः॥ प्रत्ययमाह--कित्त्वान्न गुणः ।षुञ् अभिषये।सुरः 'सुरा चषकमद्ययोःपुंल्लिङ्गस्त्रिदिवेशे स्यात्' इति मेदिनी॥'सुरो देवे सुरा मद्ये चष;