________________
[ पूर्वकृदन्ते उणादयः ]
टीकाद्वयोपेता ।
(२७७)
केऽपि सुरा क्वचित्।' इति विश्वः ॥ षूङ प्राणिगर्भविमोचने । सावयति प्रेरयति कर्मणि लोकभिति सूरः । “सूरसूर्यार्यमादित्यः -' इत्यमरः । डुधाञ् धारणादौ । अपिद्दाधेतीत्वम्। धीरैः । 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्यायाम्' इति मेदिनी । गृधु अभिकाङ्क्षायाम् । गृध्रः । ' गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके।' इति मेदिनी ॥
( शूरादयः ) शुः सौत्रः । शूरः । षिञ् सीरः । चिञ् चीरम् ॥
( सुबोधिनी ) - शूरादयः ॥ क्रप्रत्ययान्ता निपात्यन्ते -शु गतौ । निपातनाद्दीर्घः सर्वत्र । शूरः । 'शूरः स्यात्पादपे भटे।' इति मेदिनी ॥ ' शूरश्चारुघटे सूर्ये' इति विश्व - हेमचन्द्रौ ॥ षिञ् बन्धने । सीरः । ' सीरोऽर्कहलयोः पुंसि' इति मेदिनी ॥ चित्र चयने । चीरम् | 'चीरो झिल्लयां नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः ।' इति मेदिनी ॥ 'चीरं तु गोस्तने वस्त्रे चूडायां सीसकेऽपि च । चीरः कृच्छ्राटिकाशिलयोः" इति विश्वः ॥
( वा विन्धेः ) वीघ्रम् । वृधु वर्धम् । वप्रः । इन्द्रः । अगि गतौ । अग्रम् | वज्रम् | डुव विप्रः । उच समवाये । उग्रः ञिभी भये । भेरी । भेलः । शुच शोके शुक्रः । शुक्लः । गुङ गतौ। गौरः । इणू इरा । माला ॥
(सुबोधिनी ) - वाविधेः ॥ ञिइन्धी दीप्तौ विपूर्वादस्मात् कन् स्यात् ॥ नो लोप इति नलोपः । वीध्रम् । 'वीध्रं तु विमलार्थकम् |' इत्यमरः ॥ वृधु वृद्धौ । व चर्म ॥ डुव बीजसंताने । वप्रः प्राकारः । विप्रः पितरि केदारे वप्रः प्राकाररोधसोः । ' इति धरणिः ॥ इदि परमैश्वर्ये । इन्द्रः । ' इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः।' इति विश्वः ॥ अगि गतौ । नलोपो निपात्यते । अग्रम् | " अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूह च मान्तरे पुन्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्॥” इति मेदिनी ॥ व्रज गतौ । वज्रः । 'वज्रोऽस्त्री हीके पवौ' ॥ डुवप् बीजसन्ताने । उपधाया इत्वं निपातनात् । विप्रः ॥ उच समवाये । चस्य गो निपातनात् । उग्रः 'उग्रः शूद्रासुते क्षत्राद्भुद्रे पुंसि त्रिषूत्कटे ।' इति मेदिनी ॥ ञिभी भये । नदादित्वादी । 'मेरी स्त्री दुन्दुभिः पुमान् ।' इत्यमरः ॥ पक्षे रस्य लत्वं निपात्यते । भेलः। ‘भेलः प्लवे मणौ पुंसि भीरावज्ञे च वाच्यवत् । ' इति मेदिनी ॥ शुच शोके । चस्य को निपातनात् । शुक्रः । 'शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् । रेतो - क्षिरुग्भिदो : क्लीबम्' इति ॥ पक्षे लत्वं निपात्यते । शुक्लः । 'शुक्लो योगान्तरे सिते । नपुंसकं तु रजते' इति च मेदिनी ॥ गुङ् अव्यक्ते शब्द | वृद्धिर्निपातनात् । गौरः ॥ “गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेशरे ॥ गौरी त्वसंजातरजःकन्याशंकर भार्ययोः ॥ रोचने रजनीपिङ्गाप्रियङ्गुवसुधासु च ।