________________
(२७८)
सिद्धान्तचन्द्रिका। [ पूर्ववृ दन्ते उणादयः ] आपगाया विशेषेऽपि यादसांपतियोषिति ॥” इति मेदिनी ॥ गौरोऽरुणे सिते पीते' इति विश्वः ॥ इण् गतौ । इणो गुणाभावो निपातनात् । इरा । 'इरा मद्ये च वारिणि' इति विश्वः ॥ मा माने । प्रत्यये रस्य लत्वं निपातनात् । माला। 'मालं क्षेत्रे स्त्रियां पृक्कास्रजोर्जात्यन्तरे पुमान् ।' इदि मेदिनी ॥ 'मालं क्षेत्रे जने मालो माला पुष्पादिदामनि।' इति विश्वः ॥ 'मालमुन्नतभूतलम्।' इत्युपले । 'क्षेत्रमारुह्य मालम्' इति मेघदूतः॥ _ (क्वुः शिल्पिसंज्ञयोः) रजकः । चष् भक्षणे । चषकम् । कुह विस्मापने । कुहकम् ॥
(सुबोधिनी) क्षुः शिल्पिसंज्ञयोः॥ शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्वुः स्यात् ॥ क्युप्रत्ययमाह-कित्त्वान्न गुणः । युवोरित्यकादेशः । रञ्ज रागे । नो लोप इति नलोपः। रजकः। 'रजको धावकशुकौ' इति हैमरजको धावके शुके।' इति विश्वः॥चप भक्षणे । संज्ञायां तु चषकः । 'चषकोऽस्त्री नपात्रम्' इत्यमरः ॥ कुह विस्मापने । कुहकः दाम्भिकः ॥ कृती छेदने । कृतकः॥
(मुषेः किको दीर्घश्च ) मूषिकः ॥ (सुबोधिनी)-मुषः किको दीर्घश्च ॥ मुष स्तेये अस्मारिककः। किकप्रत्यय माह-कित्त्वान्न गुणः । मूषिकः आखुः॥
(क्रिय इकः) क्रयिकः॥ (सुबोधिनी )-क्रिय इकः ॥ इकप्रत्ययमाह--डुक्री । द्रव्यविनिमये । ऋयिकः क्रेता॥
(श्यास्त्याहृञविभ्य इनः ) श्येनः । स्त्येनः। हरिणः। अविनः।। (सुबोधिनी) श्यास्त्याहाविभ्य इनः॥ इन्प्रत्ययमाह-श्यैङ् गतौ । सन्ध्यक्षराणामित्यात्वम् । श्येनः । श्येनः पत्रिणि पाण्डुरे।' इति मेदिनी ॥ स्त्यै ष्टयै शब्दसंघातयोः । स्त्येनश्चौरः ॥ हृञ् हरणे । हरिणः । “हरिणः पुंसि सारंगे विशदे त्वभिधेयवत् । हरिणी हरितायां च गणिकावृत्तभेदयोः । सुवर्णप्रतिमायां च” इति मंदिनी ॥ अव रक्षणादौ । अविनः अध्वर्युः॥
(वृजादेः किनः) वृजिनम् ॥ (सुबोधिनी)-वृजादेः किनः॥ किनप्रत्ययमाह-कित्त्वान्न गुणः। वृजी वर्जने। वृजिनम् । 'वृजिनं कल्मषे क्लीबं केशे ना कुटिलेऽन्यवत्।' इति मेदिनी॥
(अजेर्वी न) अजिनम् । कठ कृच्छ्रजीवने। कठिनम्। नल गन्धे। नलिनम् । कुडि दाहे । कुण्डिनम् । दो दिनम् ।।