________________
[ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता।
(२७९) ___ (सुबोधिनी)-अजेर्वी न ॥किनप्रत्यये वीभावो न स्यात् ॥ अज गत्यादौ । अजिनम् । 'अजिनं चर्म कृतिः स्त्री' इत्यमरः ॥ कठ कृच्छ्रजीवने । कठिनम् । "कठिनमपि निष्ठुर स्यात्स्तब्ध तु त्रिषु नपुंसकं स्थाल्याम् । कठिनी खटिकायामपि. कठिना गुडशर्करायां च ॥” इति मेदिनी॥नल गन्धने॥ नलिनं पद्मम् ॥ मल धारणे॥. मालिनम् । 'मलिनं दूषिते कृष्ण ऋतुमत्यां तु योषिति' इति मेदिनी ॥ कुडि दाहे । कुण्डिनं नगरम् । कुण्डिन ऋषिः ॥ दो अवखण्डने । सन्ध्यक्षराणामित्यात्वे आतोऽनपीत्यालोपः । दिनम् ।
(द्रुदक्षिभ्यामिनः ) द्रविणम् । दक्ष वृद्धौ । दक्षिणः। दक्षिणा ।' ___ (सुबोधिनी)-द्रदक्षिभ्यामिनः॥ द्रु गतौ । द्रविणम् । 'द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे।' इति मेदिनी ॥ दक्ष वृद्धौ । दक्षिणः । “दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरले प्राचीनेऽप्यथ दक्षिणा । दिक् प्रतिष्ठा यज्ञदानम्" इति हेमचन्द्रः ॥ “दक्षिणः सरलोद रपरच्छन्दानुवर्तिषु । वाच्यवद्दक्षिणावाची यज्ञदान-- प्रतिष्ठयोः ॥” इति विश्वः ॥
( अर्तेः किदिर च ) इरिणम् ॥ (सुबोधिनी)-अर्तेः किदिर च ॥ऋ गतौ अस्मादिनक् प्रत्ययः स्याद्धातारिरादेशश्च ॥ इरिणम् । 'इरिणं शून्यमूषरम् ।' इत्यमरः ॥
( वेपितुह्योह्रस्वश्च विपिनम् । तुहिनम् ॥ (सुबोधिनी)-वेपितुह्य ईस्वश्च ॥ आभ्यामिनप्रत्ययः स्याद्धातोहस्वश्च ॥ टुवेपृ कम्पने । विपिनम् । 'अटव्यरण्यं विपिनम्' इत्यमरः ॥ तुहिर् अर्दने । उपधाया गुणे कृते हस्वः। तुहिनं हिमम् ॥
( तलिपुलिभ्यां च तल प्रतिष्ठायाम् । तलिनम् । पुलिनम् ॥ (सुबोधिनी)-तलिपुलिभ्यां च ॥ इनप्रत्ययः स्यात् ॥ तल प्रतिष्ठायाम् । तलिनम् । 'तलिनं विरले स्तोक स्वच्छेऽपि तलिनं त्रिषु ॥' पुल महत्त्वे। पुलिनम् ॥
(रुहेश्व) रोहिणः॥ ( सुबोधिनी )-रुहेश्च ॥ इनप्रत्ययः स्यात् ॥ रुह बीजजन्मनि । रोहिणः चन्दनतरुः॥
(आप्नोतेः किप द्वस्वश्च ) आपः। अद्भिः॥ (सुबोधिनी)-आमोतेः विप् द्वस्वश्च ॥ आप्ल व्याप्ती अस्मारिकप् धातोर्हस्वश्च ॥ किप्पत्ययमाह-सम्महतो धौ दीर्घः। आपः। भिऽदपामिति दत्वम् । अद्भिः ॥