________________
(२८०)
सिद्धान्तचन्द्रिका। [ पूर्वकृदन्ते उणादयः ] (ग्लानुदिभ्यां डौः ) ग्लौः । नौः॥ (सुबोधिनी)-ग्लानुदिभ्यो डौः ॥ डोप्रत्ययमाह-डित्त्वाहिलोपः । ग्लै हर्षक्षये। ग्लौः। 'ग्लौ{गाङ्कः कलानिधिः ।' इत्यमरः॥ णुद प्रेरणे । नौः। 'स्त्रियां नौस्तरणिस्तरिः।' इत्यमरः॥
(राते?ः) राः, राया ॥ (सुबोधिनी)-राते?ः॥डैप्रत्ययमाह-डित्त्वाटिलोपः । रा दाने । स्भि इत्यात्वम् । राः। 'रः स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः ।' इति मेदिनी ॥ 'रस्तीक्ष्णे दहने रास्तु सुवणे जलदे धने।' इति हैमः॥ - (गमेझैः) गौः॥
(सुबोधिनी)-गमेझैः॥ डोप्रत्ययमाह-डित्त्वाहिलोपः। गम्ल गता । ओरौरित्यौः । गौः।"गौर्नाऽऽदित्ये बलीवर्दे किरणक्रतुभेदयोः। श्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोसु ॥” इति केशवः ॥ "गौः स्वर्गे वृषभे रश्मौ बजे चन्द्रे पुमान् भवेत् । अर्जने नेत्रदिग्बाणभूवाग्वारिषु गौर्मता॥” इत्यमरः॥
(तत्त्वदी०)-गमेरिति ॥ गौरिति ॥ "गौर्नाऽऽदित्ये बलीव किरणक्रतुदयोः ॥ स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिद बाणलोमसु ॥"
(भ्रमर्दू) भूः॥ ( सुबोधिनी )-भ्रमेडूः ॥डूप्रत्ययमाह-डिवाहिलोपः । भ्रम अनवस्थाने । भ्रूः। . (दमेझैस) दोः, दोषौ ॥
(सुबोधिनी)-दमेझैस् ॥ डोस्प्रत्ययमाह-डित्त्व लोपः । दमु उपशमे । 'दोषाम्' इति रः । दोः । 'दोष तस्य' इति श्रीहर्षप्रयोगात् स्त्वम्॥'ककुद्दोषणी' इति भाष्यप्रयोगान्नपुंसकत्वम्। दोर्दोषाच भुजो बाहुः इति धनंजयकोशास्त्रीलिङ्गोऽप्ययम्।
(पणेरिज् आदेर्वः) वणिक्। . (सुबोधिनी)-पणेरिज् आदेवः॥ इजप्रत्ययमाह-पण् व्यवहारे स्तुतौ च । वाणक् । 'नगमो वाणिजो वणिक्' इत्यमरः ॥
(अशे रशादेशो युप्रत्ययः) रशना । (सुबोधिनी ) अशे रशादेशो युप्रत्ययः॥युप्रत्ययमाह-युवोरित्यनादेशः। अशूङ व्याप्तौ अश भोजने वा । रशना । 'तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः। रशनाऽपि च जिह्वायाम्' इति विश्वः॥ रस आस्वादने रस शब्दे इति धातुभ्यांयुमत्यये