________________
[ पूर्वकृदन्ते उणादयः ]
टीकाद्वयोपेता ।
( २८१ )
दन्त्यसकारवानपि । 'रसनं स्वेदनं ध्वनौ । जिह्वायां तु न पुंसि स्याद्रास्नायां रसना स्त्रियाम्॥' इति मेदिनी ॥ 'रसनं निःस्वने स्वादे रसना काश्चिजिह्वयोः । ' इति धरणिः ॥ (तत्त्वदी० ) - रशनेति ॥ काञ्ची । जिह्वायां दन्त्यसकारवान् ॥ ( उन्देर्मलोपश्च ) ओदनः ॥
(सुबोधिनी ) - उन्देर्नलोपश्च ॥ युः स्यात् ॥ उन्दी क्लेदने । ओदनः 'ओदनं न स्त्रियां भक्ते बलायामोदिनी स्त्रियाम् ।' इति मेदिनी ॥
( गमेर्गान्तादेशश्च ) गगनम् । (अन्येभ्योऽपि युः) स्यन्दनम् । रोचनः ।
( सुबोधिनी ) - गमेर्गान्तादेशश्च ॥ युः स्यान्मस्य गश्च ॥ गम्ल गतौ । गगनम् । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः ॥ अन्येभ्योऽपि युः ॥ स्यन्दू प्रस्रवणे । स्यन्दनः । ‘स्यन्दनं तु स्रुतौ नीरे तिनिशे ना रथेऽखियाम् ।' इत्यमरः ॥ रुच दीप्तौ । रोचनः ।“रोचना रक्तकह्लारे गोपित्तवरयोषिताः । रोचनः कूटशाल्मल्यां ुसि स्याद्रोचके त्रिषु ॥” इति मेदिनी ॥
( रञ्जिकृभ्यां क्युः ) रजनम् । किरणः ॥
(सुबोधिनी) - रञ्जिकृभ्यां क्युः ॥ क्युप्रत्ययमाह - कित्त्वान्न गुणः । रञ्ज रागे । नो लोप इति नलोपः । रजनम् । 'रजनो रागजनने रजनं रक्तचन्दने ।' इति मेदिनी ॥ कृ विक्षेपे । ऋत इरितीर् । किरणः ॥
( धृषेधिपश्च) धिषणा । ( धाञश्च ) निधनम् ॥
(सुबोधिनी ) - धृषेर्धिषश्च ॥धृषेर्धिष् आदेशश्च । ञिधृषा प्रागल्भ्ये । धिषणः । 'धिषणस्त्रिदशाचार्ये धिषणाधिपयोषिति।' इति मेदिनी ॥ " गीष्पतिर्धिषणो गुरुः। ' इत्यमरः॥ डुधाञ् धारणादौ । आतोऽनपीत्या लोपः । निधनम् । 'निधनं स्यात्कुले नाशे' इति मेदिनी ॥ ' निधनं कुलनाशयोः । ' इति हैमः ॥
(तत्त्वदी०) - धिषणेति ॥ बुद्धौ । गुरौ तु पुंवत् ॥
( पृषदादयः ) पृषु सेचने ॥ पृषत् । पृषन्ति । बृह उद्यमे । बृहत् । महान् । जगत् ॥ (विपूर्वाद्धनः ) वेहत् ॥
(सुबोधिनी) - पृषदादयः ॥ अतृप्रत्ययान्ता निपात्यन्ते वर्तमानेऽर्थे ॥ अतृप्रत्ययमाह - ऋदित्वात् पुंसि व्रितो नुमिति नुम् । स्त्रियां तु व्रित इतीपू । पृषु सेचने । निपातनाद् गुणाभावः । पृषत् । पृषन्ति । बिन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनान्तमुदाहृतम् । “पृषन्मृगे पुमान्बिन्दौ न द्वयोः पृषतोऽपि ना।” इति मेदिनी ॥ बृह वृद्धौ । बृहत् विपुलम् | 'बृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचेि च' इति विश्वः ॥