________________
(२८२) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्ते उणादयः] मह पूजायाम् । महान् । 'महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमा
श्रेष्ठे वाच्यवत्' इति विश्वः॥ "विश्वावसोस्तु बृहती तुम्बुरोश्च कलावती।महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी॥” इति वैजयन्ती ॥ 'अवेक्षमाणं महती मुहुर्मुहुः।'इति माघः॥ हन हिंसागत्योः। विपूर्वाद्धन्तेरतृप्रत्ययो धातोष्टिलोपश्च निपातनादुपसर्गेकारस्यैत्वं च । विहन्ति गर्भमिति वेहत् । 'वेहद्गीपघातिनी' इत्यमरः ॥
(नप्तृनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्तृभ्रातृजामातृमातृपितृदुहित एते निपात्यन्ते तृप्रत्ययान्ताः) न पतन्त्यनेनेति नप्ता। नेष्टा। त्वेषयतीति त्वष्टा । क्षद भक्षणे। क्षत्ता। होता। पोता । प्रशास्ता। भ्राता । जायां मातीति जामाता । मान पजायाम् । माता । पातीति पिता । दुहिता ॥ (सुबोधिनी)-नप्तृनेष्ट्रत्वष्टक्षतृहोतृपोतृप्रशास्तृभ्रातृजामातृपितृदुहित एते निपात्यन्ते तृप्रत्ययान्ताः ॥ तृप्रत्ययमाह-पल पतने । नत्रः प्रकृतिभावो धातोष्टलॊपश्च निपातनात् । सेरा इत्यात्वम् । नप्ता पौत्रा दौहित्रश्च ॥ णीज्ञ प्रापणे । नयतेः षुक गुणश्च निपातनात् । ष्टुत्वम् । नेष्टात्विष दीप्तौ । धातोरितोऽत् निपातनात् । त्वष्टा । 'त्वष्टा पुमान्देवशिल्पितक्ष्णोरादित्यवाच्यपि' इति मेदिनी ॥ क्षद शकलीकरणे भक्षणे च । अनुदात्तेत् । क्षत्ता। 'क्षत्ता स्यात्सारथौ द्वाःस्थे वेश्यायामपि शूद्रजे।' इति विश्वः ॥ हु दानादनयोः । होता ॥ पूञ् पवने । पोता॥ भ्राज दीप्तौ । भ्राजते लोपो निपातनात् । भ्राता । मा माने । जायां माताति । जायाया जादेशो निपातनात् । जामाता॥ मान पूजायाम्। नस्य लोपो निपातनात् ।माता॥ पा रक्षणे। . पातेराकारस्यत्वं च निपात्यते। पिता ॥ दुह प्रपूरणे । दुहेस्तृप्रयत्यस्येड् गुणाभावश्च निपातनात् । दुहिता ॥
(सावसेः ) स्वसा ॥ (सुबोधिनी)-सावसेक्रः ॥ सु उपपदे असु क्षेपणे इत्यस्मादृप्रत्ययः स्यात् ॥ ऋप्रत्ययमाह स्वसा भगिनी ॥
( यतेवृद्धिश्च ) याता॥ (सुबोधिनी)-यतेवृद्धिश्च ॥ यती प्रयत्नेऽस्माहः स्य द् वृद्धिश्च ॥ याता । 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।' इत्यमरः॥
(नजि नन्देश्व) न नन्दतीति ननान्दा । ननन्देत्येके । (सुबोधिनी)-नजि नन्देश्च॥ ऋः स्याद् वृद्धिश्च । दु नदि समृद्धौ।न नन्दतीति।। कृतायामाप सेवायां रुष्यतीत्यर्थः । ननान्दा । वृद्धिर्नानुवर्तत इत्येके । ननन्दा ।