________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(२८३) 'ननान्दा तु स्वसा पत्युननन्दा नन्दनी च सा' इति शब्दार्णवः॥ 'उषा पूषा ननान्दा च ननन्दा च प्रकीर्तिता' इति विश्वः॥ .
(दिवेक्रः) देवा: देवरौ॥ (सुबोधिनी)-दिवेक्रः॥दिवुक्रीडादौ । देवा ॥ 'स्वामिनो देवृदेवरौ' इत्यमरः ॥ (नयतेर्डिच्च ) ना, नरो, नरः॥ ( सुबोधिनी)-नयतेर्डिच्च ॥ प्रत्ययमाह-डित्त्वाहिलोपः । णी प्राप्रणे । ना । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः ॥
(अादेरनिः) अरणिः । सरणिः । तरणिःोधमनिः। अशनिः। अवनिः। रजनिः। ___(मुबोधिनी)-अादरनिः॥ अनिप्रत्ययमाह-ऋ गतौ। अरणिः। 'अरणिर्वहिमन्थे ना द्वयोर्निर्मन्थ्यदारणि' इति मेदिनी ॥ सृ गतौ । सरणिः । 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रभ ः ॥ श हिंसायाम् । ततोऽनिः । शरणिरित्येके ॥ धृञ् धारणे । धरणिः भूमिः ॥धामः सौत्रः। धमनिः शिरा ॥ अश भोजने । अश्यते भुज्यते राज्यमिन्द्रेणानयेति अशनिः । 'अशनिः स्त्रीपुंसयोः स्याच्चञ्चलायां पवावपि' इति मेदिनी ॥ अव रक्षणादी । अवनिः पृथिवी ॥ तृ प्लवनतरणयोः 'तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम्' इति मेदिनी ॥ कुमारी लताविशेषः । तरणी रामतरणी कणिका चारुकेसरा सहा कुमारी गन्धाढया' इति धन्वन्तरिनिघण्टुः ॥ रञ्ज रागे । नलोपो निपातन त् । रजनिः । कृदिकारादितीपि 'रजनी हस्तिनी रात्रिहरिद्राजतुकासु च' इति मेदिनी ॥
(अादेरिस् ) अर्चिः, अर्चिषी । रोचिः । शोचिः। छदिः । हविः। सर्पिः॥
(सुबोधिनी)-अारिम्॥इस्प्रत्ययमाह-अर्च पूजायाम् । अचिः 'ज्वालाभासोन पुस्याचिः' इति सान्तेष्वमरः ॥ ञ्यन्तादचेंरिप्रत्यये अधिरिदन्तोऽपि । 'आँचहेंतिः शिखा स्त्रियाम्' इत्यमरः । शुच शोके । शोचिः । 'रोचिः शोचिरुभे क्लीवे' इत्यमरः ॥ हु दानादनयोः। हविः घृतम् ॥ सृप्ल गतौ । सर्पिः आज्यम् ॥ (तत्त्वदी० )--अर्यादारिति ॥ अर्चिाला ॥ इदन्तोऽपि । शोचिर्दीप्तिः ॥ (द्युतेरादेजः) ज्यातिः॥ (सुबोधिनी)-द्युतरादेर्जः ॥ इस स्यात् दस्य जश्च॥ द्युत दीप्तौ । ज्योतिः। 'ज्योतिरनौ दिवाकरे । पुमान् नपुंसकं दृष्टौ स्यानक्षत्रप्रकाशयोः' इति मेदिनी ॥
(बृहेर्नलोपश्च) बर्हिः॥