________________
(२८४)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (सुबोधिनी)-हेर्नलोपश्च ॥ बृह वृद्धौ अस्मादिस प्रत्ययः स्यान्नकारस्य लोपश्च बर्हिः । 'बर्हिः स्यात्कुशशुष्मणोः' इत्यमरः ॥ __ (जनादेरुस्) जनुः । ऋ अरुः । परुः। (चक्षेशित ) चक्षुः । वप् वपुः । यज् यजुः ॥
(सुबोधिनी)-जनादेरुस् ॥ उस्प्रत्ययमाह-जनी प्रादुर्भाव । जनुः । 'जनुजननजन्मानि' इत्यमरः ॥ऋ गतौ । अरुः । 'व्रणोऽस्त्रियामीसमरु क्लीबे' इत्यमरः।। पृ पालनपूरणयोः। परुः। 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः ॥ डुवप् बीजसंताने । वपुः। “वपुः क्लीवं तनौ शस्ताकृतावपि' इति मेदिनी ॥ शस्ताकृतिः । प्रशस्ताकृतिरित्यर्थः। यज देवपूजादौ । यजुर्वेदः ॥ (तत्त्वदी०)-जनादेरिति ॥ जनुर्जननम् । परुर्ग्रन्थिः । (एतेर्णित ) आयुः॥ इति द्वितीयः पादः॥
(सुबोधिनी)-एतेर्णित् ॥ इण् गतावित्यस्मात् णुर : प्रत्ययः स्यात् ॥ णित्त्वाद् वृद्धिः।वृद्धौ कृतायामायादेशः। आयुः, आयुषी ॥ इति सुबो० उणादौ द्वितीयः पादः।
(धीवरादयः ष्वरप्रत्ययान्ता निपात्यन्त ) धीवरः। शर्वरी। निषद्वरः। पीवरः॥ : (सुबोधिनी)-धीवरादयः प्वरप्रत्ययान्ता निपात्यन्ते॥ष्वरप्रत्ययमाहषित्त्वात ट्रवित इतीप् । डुधाञ् धारणादौ। ईत्वं निपातनात् । धीवरः। “कैवर्ते दाशधीवरौ' इत्यमरः॥ शू हिंसायाम् शर्वरी । 'शर्वरी यामिनीस्त्रियोः' इति मेदिनी ॥ षद्ल विशरणादौ । निषद्वरः । 'निषद्वरः स्मरे पङ्के निशायांतु निषद्वरी' इति मेदिनी॥ पा पाने । ईत्वं निपात्यते । पीवरः । अन्ये तु पीव स्थौल्ये अमात्ष्वरप्रत्यये यवयोवैसे हकारे चेति वलोपे पीवर इत्याहुः। पीवरः कच्छपे स्थूले.' इति मेदिनी ॥
(तत्त्वदी०)-धीवरादयः। इति॥शर्वरी रात्रिः निषद्वरस्तु जर बालः । निषद्वरी रात्रिः ॥ - (इणादेर्नक) इनः। जिनः। दीनः। कृष्णः ॥
(सुबोधिनी)-इनादेनक् ॥ नक्प्रत्ययमाह--कित्त्वान्न गुणः । इण् गतौ । इनः । 'इनः पत्यौ नृपार्कयोः' इति मेदिनी ॥ जिं जये । जिनः । 'जिनोऽर्हति च बुद्धे च पुसि स्यात्रिषु जित्वरे' इति मेदिनी ॥ दीङ क्षये । दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्' इति विश्वः ॥ कृष विलेखने । कृष्णः। “कृष्णः सत्यवतीपुत्रे केशवे वायसर्जुने।कृष्णा स्याद्रौपदीनीलीकणाद्राक्षासु योषिति । वर्णके वाच्यलिङ्ग: स्याक्लीवे मरिचलोहयोः' इति मेदिनी ॥
(तत्त्वदी०)-इणादेरिति ॥ 'इनः सूर्ये नृपे पत्यौ ॥'