________________
[पूर्वकृदन्ते उणादयः]. टीकाद्वयोपेता ।
(२६५) (कृपादेरूः ) कः । खर्ज व्यथने । खः ॥ - (सुबोधिनी)-कृषादेसः॥ ऊप्रत्ययमाह-कृष विलेखने । कः । 'कर्षुः पुंसि करीपानी कनियां स्त्रियां मता।' इति विश्वः॥'कर्पू: पुमान् करीषानौ स्त्रियां कुल्याल्पातयोः' इति मेदिनी ॥ खर्ज व्यथने । खजूंः । 'खजूं: खजूरीकोटकण्डुषुः । पामा च' इति हैमः॥
(तत्त्वदी०) कृषादेरिति ॥ 'कर्षः पुंसि करीषाग्नौ कनियां स्त्रियां मता । खर्जः कीटान्तरे वृत्तौ' इति मेदिनी ॥ . (वहो धश्च ) वहति प्राप्नोति धनमिति वधूः॥ . . (सुबोधिनी)-वही धश्च ॥ वह प्रापणे। अस्य धान्तादेश उप्रत्ययश्च स्यात् ॥ वधूः स्त्रीविशेषः । 'वधूः स्नुषा नवोढा स्त्री भार्यापृक्काङ्गनासु च ।। इति विश्वः ॥ 'वधूजार्यास्नुपास्त्रीषु पृक्का च महिला वधूः।' इति त्रिकाण्डशेषः ॥ ' (तत्त्वदी० )-वधूः स्नुषा नवोढा स्त्री भार्या च ॥
(कषेश्छश्च) कच्छूः ॥ __ (सुबोधिनी)-कषेश्छश्च ॥ कष हिंसायाम् । अस्मादूप्रत्ययः स्यादन्तस्य छश्च ।। कच्छूः । 'कच्छां तु पाम प मा वि चका।' इत्यमरः॥ (तत्त्वदी०)-कच्छूः पाम ॥
(कास्वादयः) कल्यते हन्यतेऽनया कासूः । पद्यते प्राप्यतेऽनया पादूः । लबि गती अलाबूः । कशेरूः। दर्दूः॥
(सुबोधिनी)-कास्वादयः ॥ ऊणप्रत्ययान्ता निपात्यन्ते । णित्त्वादृद्धिः ॥ ऊणप्रत्ययमाह-कस गतौ कासूः। 'कामूर्विकलवाचि स्यात्तथा शक्त्यायुधे स्त्रियाम्।' इति मेदिनी॥ 'कासूः शक्त्यायुधे रुजि । बुद्धौ विकलवाचि स्यात्' इति हैमः ॥ पद गतौ । पार्दूःचरणधारिणा । लबि अवस्रंसने । नञ्युपपदे लम्बेर्नलोपो निपात्यते । न लम्बते जले इत्यलाबूः। 'तुम्ब्यलाबूरुभे समे' इत्यमरः ॥श हिंसायाम् । कशब्दे उपपदे शृणातेरूप्रत्र यः ऋत एरादेशश्च निपात्यते । कशेरूः । बाहुलकादुप्रत्ययोऽपि । 'कशेरुस्तृणकन्दे स्त्री' इति ॥ दरिद्रा दुर्गतौ । ऊप्रत्यये इकारस्याकारस्य च लोपो निपात्यते दर्दूः कुष्ठभेदः । मृगय्वादित्वात्कुप्रत्यये दर्दुरपि । 'द णो दरोगी स्यात्' इत्यमरः॥
(तत्त्वदी०)-'कासूविकल् वाचि स्यात्तथा शक्त्यायुधे स्त्रियाम् ।' इति मेदिनी ॥ पाश्चरणधारिगी। 'तुम्न्यलाबूरभे समे ।' 'कशेरुस्तृणकन्दे स्त्री ॥'
(अन्द्वादयः) अन्दूः ॥