________________
(२६४) सिद्धान्तचन्द्रिका। पूर्वकृदन्त उणादयः ] र्चादिः॥ दुधा धारणपोषणयोः । “धातुर्ना नेन्द्रिये त्रिषु । शब्दयोनिमहाभूततद्गुणषु रसादिषु।मनःशिलादौ श्लेष्मादौ विशेषाद्वैरिकेऽस्ति च॥' इति मेदिनी॥"श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः ॥ इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥" इत्यमरः ॥ कुश आक्रोशे । छशषेति षत्वं ष्टुत्वं तुवद्भावः क्रोष्टा । स्तुरारित्यार । कोष्टारौ ॥
(तत्त्वदी० )-स्यादेरिति॥सिनातीति सेतुः । जलमिति शेषः॥मस्तुरिति॥दधिमण्डम्।। धातुरिति ॥ 'मनःशिलादौ धातुः स्यादिन्द्रियेषु तथैव च ॥'
( अर्तेस्तुक) ऋतुः। मन्तुः। जनी प्रादुर्भावे । जन्तुः॥ (सुबोधिनी०)-अर्तेस्तुक् ॥ तुकप्रत्ययमाह-कित्त्वान्न गुणः ऋ गतौ। ऋतुः । 'ऋतुर्वर्षादिषट्सु च।''आर्तवे मासि च पुमान्' इति मेदिनी'ऋतुः स्त्रीकुसुमेऽपि च।। इत्यमरः॥ 'ऋतुः स्त्रीपुष्पकालयोः।' इति विश्वः॥पुनस्तुप्रत्यः यमाह-मन ज्ञाने मन्तुः । 'मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ।'इति मेदिनी॥जन प्रादुर्भाव । जन्तुःप्राणी।। (तत्त्वदी०) ऋतुरिति ॥ 'स्त्रीपुष्पे च ऋतुः काले ।' मन् रपराधः ॥ (चायः किः) केतुः। वस्तु॥
(सुबोधिनी) चायः किः॥ चाय पूजानिशामनयोः । अस्मात्तुप्रत्ययो.धातोः किरादेशश्च स्यात्॥केतुः। 'केतुर्ग्रहपताकयोः ।' इति विश्वः। केतुर्ना रुत्पताकादिग्रहोस्पातेषु लक्ष्मणि ।' इति मेदिनी ॥ वस निवासे । तुः वस्तु ॥ (तत्त्वदी० )-केतुरिति ॥ पताकाग्रहोत्पातेषु लक्ष्मणि च । ( अगारे णित् ) वास्तुः॥ (सुबोधिनी)-अगारे णित् ॥ अगारेऽर्थे वस्तुण स्यात् ॥ तुणप्रत्ययमाहणित्वाद् वृद्धिः। वास्तुः । 'वेश्मभूर्वास्तुरस्त्रियाम् ।' इत्यमरः ॥
( कृतः कतुः) क्रतुः॥ (सुबोधिनी )-कृत्रः कतुः ॥ कतुप्रत्ययमाह-कित्त्व न गुणः। डुकृञ करणे । ऋतुः। 'ऋतुर्यज्ञे मुनौ पुंसि' इति मेदिनी ॥ ( तत्त्वदी०) क्रतुरिति । 'ऋतुर्यज्ञे मुनौ पुंसि ॥' (जीवेरातको वृद्धिश्च ) जीवयति कुमुदाति जैवातृकः ॥ (सुबोधिनी)-जीवेरातको वृद्धिश्च ॥ जीव प्राण भरणे अस्मादातृकप्रत्ययः स्याद्धातोवृद्धिश्च॥आतृकप्रत्ययमाह-जैवातृकः। 'जैवातृकः पुमान्सोमे कर्षकायुष्मतोस्त्रिषु' । इति मेदिनी।। जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।'इति॥अस्मादातुप्रत्ययोऽपि । 'जीवातुरस्त्रियां भक्तजीविते जीवनौषधे ॥'
(तत्त्वदी०)-जीवेरिति ॥ 'जैवातृकः पुमान्सोमे कर्षकायु मतोत्रिषु' ।