SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [ पूर्वकृदन्त उणादयः ] टीकाद्वयोपेता। (२६३) (कुबेरादयोऽपि ) कुबि आच्छादने । कुबेरः। कवृ वर्णे। कपोतः॥ (सुबोधिनी) कुबेरादयोऽपि ॥ कुवि आच्छादने अस्मादेरप्रत्ययो नलोपश्च निपात्यते । कुम्बत्यन्येषामैश्वर्यमिति कुबेरः। 'कुबेरस्यम्बकसखः' इत्यमरः ॥ कबू वणे अस्मादोतप्रत्ययो बकारस्य पत्वं च निपात्यते । कपोतः । 'कपोतः स्याच्चित्रकण्ठे पारावतविहङ्गयोः।' इति मेदिनी ॥ 'कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः ॥ (भातेर्डवतुः) भातीति भवान् ॥ ___ (सुबोधिनी)-भातेर्डवतुः॥ डवतुप्रत्ययमाह-डित्त्वाहिलोपः। उदित्त्वान्नुम् ईष् च । भा दीप्तौ । भातीति भवान् । सर्वादिशब्दोऽयम् ॥ (किशोरादयो निपात्यन्ते) किं शृणातीति किशोरः । कठ कृच्छजीवने । कठोरः। चक तृप्तौ । चकोरः। कपि कपोलः। पटोलः॥ (सुबोधिनी)-किशोरादयो निपात्यन्ते ॥ ओरप्रत्ययान्ता ओलप्रत्ययान्ताश्च ॥ किम्पूर्वस्य शृणातेष्टिलोपश्च किमोऽन्त्यलोपश्च निपातनात् । श हिंसायाम् । किशोरः । 'किशोरोऽश्वस्य शावके । तैलपर्योषधौ च स्यात्तरुणावस्थसूर्ययोः॥' इति मेदिनी ॥ कठ कृच्छ्रजीवने। कठोरः। कठिनः पूर्णश्च । 'कठोरताराधिपलाञ्छनच्छविः' इति माघः ॥ चक तृतौ। चकोरः पक्षिभेदः ॥ कपि चलने । नलोपो निपातनात् । कपोलः । ओलप्रत्ययोऽप्येभ्यो निपातनात् ॥ पट गतौ । पटोलः । 'पटोलं वस्त्रभेदे नौषध्यां ज्योत्स्न्यां तु योषिति ।' इति मेदिनी ॥ (तत्त्वदी०)-'किशोरोऽश्वस्य शावके । तैलपर्योषधौ च स्यात्तरुणावस्थसूर्ययोः ॥' (मीनातेरूरः) मयूरः॥ (सुबोधिनी)-मीनातेरूरः ॥ ऊरप्रत्ययमाह-मीञ् हिंसायाम् । मयूरः॥ (स्यन्देः संप्रसारणम् ) सिन्दूरम् ॥ (सुबोधिनी) स्यन्देः संप्रसारणम् ॥ स्यन्दू प्रस्रवणे अस्मादूरप्रत्ययः संप्रसारणं च स्यात् ॥ सिन्दूरम्॥ सिन्दूरस्तरुभेदे स्यासिन्दूरं रक्तचूर्णके ।' इति मेदिनी ॥ (स्यादेस्तुः) सेतुः । तन्तुः। ओतुः। मसी परिणामे । मस्तुः। धातुः । षच समवाये । सचति समावेशयति चात्मनि जलमिति सक्तुः । क्रोष्टा ॥ (सुबोधिनी)-स्यादेस्तुः ॥ तुप्रत्ययमाह-पित्रु बन्धने । सेतुः। 'सेतुरालौ स्त्रियां पुमान्।' इत्यमरः॥ 'सेतुर्नाऽऽलौ कुमारके।' इति मेदिनी॥तनु विस्तारे तन्तुः । हबक्त्योरितीन । 'सूत्राणि नरि तन्तवः।' इत्यमरः॥ मसी परिणामे ॥ मस्तुः 'मण्डं दधिभवं मस्तु' इत्यमरः ॥ षच सेचने। सच्यते इति सक्तुः। चोः कुरिति कः। अर्द्ध
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy