________________
(२६२)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः । (तत्त्वदी०) मुदिर इति ॥ 'मुदिरः कामुकाभ्रयोः' ॥ मन्दिरमिति॥ 'नगरागारयोः क्लीबम् ।' 'मिहिरः सूर्यबुद्धयोः ।' रुधिरमिति ॥ 'रुधिरोऽङ्गारके पुंसि क्लीबं तु कुङ्कुमासृजोः।' 'शुषिरं वंशादिवाये विवरे च नपुंसकम् ॥'
(अजिरादयो निपात्याः) अजिरम् । शश प्लुतगतौ । शशतीति शिशिरम् । श्रथ मोचने । शिथिलम् । स्थिरम् । स्फायीं स्फिरम् । स्थविरः । खदिरः । शी शिबिरम् । सल गतौ । सलिलम् । अनिलः । महिला । कोकिलः। कमु कपिलः ।मथ्यन्ते रिपवोऽस्यामिति मिथिला॥ __ (सुबोधिनी)-अजिरादयो निपात्याः ॥ किरप्रत्ययान्ता निपात्यन्ते । अज गतौ । अजेवीभावाभावः। अजिरम् । दशपादीवृत्तौ तु नपूर्वस्य जीयतेवर्णलोपो निपात्यते इत्युक्तम् । न जीर्यतीत्यजिरम् । 'अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले।' इति मेदिनी ॥ शश प्लुतगतौ । शशेरुपधाया इत्वं निपात्यते। शिशिरम् । 'शिशिरं स्याहतो.दे तुषारे शीतलेऽन्यवत्।' इति विश्वः ॥ 'शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु ।' इति मेदिनी ॥ श्रथ मोचने । धातोरुपधाया इत्वं रलोपः प्रत्ययरेफस्य लत्वं च निपात्यते।शिथिलम्॥ष्ठा गतिनिवृत्तौ। आतोऽनपीत्यालोपः। स्थिरं निश्चलम्। तिष्ठतेर्वक ह्रस्वत्वं च निपात्यते । स्थविरःस्फायी वृद्धौ। यत इति यलोपः। आतोऽनपीत्यालोपः। स्फिरम् । 'भूर्यदभ्रं पुरु स्फिरम्।' इति हैमः॥खद स्थैर्ये । खदिरः। 'खदिरी शाकभेदे स्त्री ना चन्द्र दन्तधावने।' इति मेदिनी ॥शी स्वप्ने । शीडो बुक हस्वश्च निपात्यते। शेरतेऽस्मिन् राजबलानीति शिबिरं निवेशः। निवेशःशिविरं षण्ढे' इत्यमरः॥सल गतौ । सलिलादय इलप्रत्ययान्ता निपात्यन्ते । सलति गच्छति निम्नमिति सलिलम् ॥ अन प्राणने । अनिलः ॥ मह पूजायाम् । महिला। पृषोदरादित्वान्महेलाऽपि । महेला फलिनीस्त्रियोः।' इति मेदिनी। 'प्रियङ्गुः फलिनी फली।' इत्यमरः॥ दमयन्तीकाव्ये प्रयोगो यथा-'परमहेलारतोऽप्यपारदारिकः'अत्र परस्य महेला स्त्री अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः ॥ कुक आदाने। कोकिलः॥ कुट कौटिल्ये। बाहुल्याद् गुणाभावः। कुटिलः ॥ कमु कान्तौ । मस्य निपातनात्पः। कपिलः । “कपिला रेणुकायां च शिंशपागोविशेषयोः। पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकः । नानले वासुदेवे च मुनिभेदे च कुक्कुरे ॥” इति मेदिनी ॥ मन्थ विलोडने । अकारस्येत्वं निपात्यते । मथ्यन्ते रिपवोत्रेति मिथिला नगरी ॥ - (तत्त्वदी०)-अजिरमिति ॥ “अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले । शिशिरं स्याहतोमेंदे तुषारे शीतलेऽन्यवत् ॥” स्थिरमिति ॥ निश्चलम् । 'खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने।' इति ॥ शिबिरमिति ॥ शेरतेऽस्मिन् राजबलानीति शिबिरं निवेशः ॥ महिलेति॥ 'महिला फलिनीस्त्रियोः ॥'