________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता।
(२६१) : (सुबोधिनी)-अविमह्योरिषट् ॥ इषट् प्रत्ययः स्यात् ॥ इषट्प्रत्ययमाहटित्त्वात् वित इतीप् । अव रक्षणादौ। अविषः। अविषौ राजजलधी'इत्युक्तत्वादविष
शब्देन राजा समुद्रश्चोच्यते॥मह पूजायाम्।महिषः। 'माहिषी राजयोषिति।'इति हैमः।। - (तत्त्वदी०)-अविष इति ॥ 'अविषौ राजजलधी महिषस्तु महान्मतः ।' 'महिषी राजपत्नी स्यात् ॥'
(अमेर्दीर्घश्च ) अम गत्याम् । आमिषम् ॥ (सुबोधिनी)-अमेर्दीर्घश्च ॥ अस्य दीर्घः स्यादिषट् प्रत्ययश्च॥ अम गत्यादौ आमिषम् । आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ॥' (तत्त्वदी० )-'आमिषं त्वस्त्रियां मांसे भोग्यवस्तुनि चेष्यते ॥' . (रुहेवृद्धिश्च ) रौहिषः॥ (सुबोधिनी )-रुहेर्वृद्धिश्च ॥ अस्य वृद्धिः स्यादिषट् प्रत्ययश्च ॥ रुह बीजजन्मनि । रौहिषः । रङ्कुशम्बररौहिषाः।' इत्यमरः ॥ रौहिषो मृगभेदे स्याद्रौहिर्ष च तृणं मतम् ।' इति संसारावर्तः ॥ __ (तत्त्वदी०)-रौहिषमिति ॥ 'तृणे च मृगभेदे च ॥'
(किलेबुक् च ) किल शौक्ल्ये । केलतीति किल्बिषम् ॥ (सुबोधिनी)-किलेर्बुक् च ॥ किल श्वैत्यक्रीडनयोरस्मादिषट् प्रत्ययो धातोढुंगागमश्च स्यात् ॥ किल्बिषम् । 'किल्विषं पापरोगयोः। अपराधेऽपि' इति मेदिनी॥ (तत्त्वदी० )-किल्बिषमिति ॥ पापरोगयोः ॥
(मद्यादेः किरः) मदिरा । मुदिरः । मन्दिरम् । तिमिरम् । मिहिरः। छिदिरः। रुचिरम् । रुधिरम् । बन्ध बन्धने । बधिरः । शुषिरम् ॥
(सुबोधिनी)-मद्यादेः किरः॥ किरप्रत्ययः स्यात्॥ किरप्रत्ययमाह-कित्त्वान्न गुणः । मदी हर्षे । मदिरा सुरा ॥ मुद हर्षे । मुदिरः। 'मुदिरः कामुकाभ्रयोः। इति मेदिनी ॥ मदि स्तुत्यादौ । मन्दिरम् । 'मन्दिरं नगरेऽगारे क्लीबं ना मकरालये।' इति मेदिनी ।तिम आर्दीभावे। तिमिरम्। 'तिमिरं ध्वान्ते नेत्रामयेऽन्तके।' इति मेदिनी॥मिह सेचने । मिहिरः। 'मिहिरः सूर्यबुद्धयोः।' इति मेदिनी ॥ रुच दीप्तौ । रुचिरम् । सुन्दरं रुचिरं चारु' इत्यमरः ॥ रुधिर आवरणे । रुधिरम् । 'रुधिरोऽङ्गारके पुंसि क्लीवं तु कुकुमासृजोः।' इति मेदिनी ॥ बन्ध बन्धने । नो लेप इति नलोपः । बधिरः। श्रोत्रेन्द्रियरहितः ॥ शुष शोषणे। 'शुषिरं वंशादिवाये विवरे च नपुंसकम् ।' 'शुषिरं विवरं विलं छिद्रम्' इत्यमरः ॥