________________
( २६०)
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उणादयः ]]
'वाजिशाला तु भन्दुरा' इत्यमरः ॥ मन्थ विलोडने मथुरा ॥ चते याचने । चतुरः ॥ वाट शब्दे । वाश्यन्ते अस्यामिति वाशुरा रात्रिः । गर्दभोऽपि ॥ अकि लक्षणे । अङ्कुरः । 'अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि ॥ खर्जूरादित्वादूरप्रत्यये अङ्करोऽपि । 'अङ्करोऽङ्कुर एव च ।' इति विश्वप्रकाशः ॥
(तत्त्वदी ० ) - मृगयुरिति ॥ मृगयुर्व्याधः ॥ शकुरिति । 'शङ्कुर्ना कीलशल्ययोः ।' नीलडुगुः कृमिविशेषः सृगालश्च ॥ मन्दुरेति ॥ ' मन्दुरा वाजिशाला स्यात् ।।' वाशुरेति ॥ वाश्यन्तेऽस्यामिति वाशुरा रात्रिर्गर्दभोऽपि च 'वाशुरा वासितारात्र्योः' इति मेदिनी ॥ अङ्कुर इति ॥ 'अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि । अकूरोऽपि च ॥'
( मद्वरादयो निपात्याः ) माद्यतीति मद्गुरः । कर्बुरः । बन्धुरः । बन्धुरः । कुक वृक आदाने । कुक्कुरः । कुकुरः । असुरः । आसुरः । मसुरः । मसूरः ॥
(सुबोधिनी) - मद्गुरादयो निपात्याः ॥ उरप्रत्ययान्ता निपात्यन्ते - मदी हर्षे गुगागमो निपात्यते । माद्यतीति मद्गुरो मत्स्यभेदः ॥ कबृ वर्णे । रुगागमो धातोर्निपात्यते। “कर्बुरः।“कर्बुरं सलिले हेनि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥” इति मेदिनी ॥' कर्बुरश्चित्ररक्षसोः॥ बन्ध बन्धने ॥ बनातीति बन्धुरः । खर्जूरादित्वादूर प्रत्ययोऽपि । 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु । ' इति रन्तिदेवः॥
आदा | कर्वा कुगागमो निपात्यते । कुक्कुरः । 'कुकुरः कुक्कुरो मताः' इति हरचन्द्रः ॥ ‘कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसके ।' इति मेदिनी ॥ असु क्षेपणे । असुरः अणूप्रत्यये आसुरः। मसी परिणामे । मसुरः । ऊरप्रत्यये मसूरोपे । " मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् ॥” इति मेदिनी ॥ 'मसूरमसुरौ च द्वौ ' इति विश्वः ॥
( तत्त्वदी ० ) र इति ।। मत्स्यभेदः । कर्बुर इति ॥ कट वर्णे । 'कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः । शबले त्रिष्वपि ॥' बन्धुर इति । 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु ||' मसुर इति ॥ "मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसुरा पादरोगे स्यादुपधाने पुनः पुमान् ।”
( शावशेराप्तौ ) शु इति आश्वर्थे । शु शीघ्रमश्नुते प्राप्नोति कन्यां यस्मात्स श्वशुरः ॥
( सुबोधिनी ) - शावशेराप्तौ ॥ आशुशब्दस्य निपातनादाकारलोपस्तस्मिन् शब्द उपपदे आप्तौ गम्यमानायाम् अशुङ् व्याप्तावित्यस्माद्धातोरुरप्रत्ययः स्यात्॥ श्वशुरः 'पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः । ' इत्यमरः ॥
( अविमोरिषट् ) अविषः । महिषः । महिषी राजपत्नी ॥