________________
[ पूर्वकृदन्ते उणादयः ]
टीकाद्वयोपेता ।
( २५९ )
(सुबोधिनी) - वालमूललध्वङगुलीनां वा लस्य रः । एषां लो रत्वमापद्यते वा ॥ रघुर्नृपभेदः 'अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्नाः रघुमात्मसंभवम् ॥” इति रघुवंशे ॥ बहि वृद्धौ बहु:। 'बहुस्तु त्र्यादिसंख्यासु विपुले त्वभिधेयवत् ।' इति मेदिनी ॥ (ऊर्णोति लोपश्च ) ऊरुः ॥
(सुबोधिनी ) - ऊर्णीतेर्नुलोपश्च ॥ ऊर्णुञ् आच्छादने । ऊर्णूयते आच्छाद्यते इत्यूरुः । कर्मणि कुप्रत्ययः ॥
( महति ह्रस्व ) उरु महत् ॥
(सुबोधिनी ) - महति ह्रस्वश्च ॥ ऊर्णोतीति कर्तरि कुप्रत्ययः ॥ उरु महत् ॥ ( आङ्गपरयोः खनिशुभ्यां डिच ) आखनतीत्याखुः । श हिंसा याम् । परान् शृणातीति परंशुः ॥
(सुबोधिनी) - आपरयोः खनिशृभ्यां ङिच्च ।। अनयोरुपपदयोराभ्यां कुः स्यात् स डिच्च ॥ ङित्त्वाट्टिलोपः । खनु अवदारणे । आखुः ॥ हिंसायाम् । परंशृणातीति परशुः । पृषोदरादित्वादकारस्य लोपः । पशुः । 'पशुः परशुना सह ।' इति विश्वः ॥
( दोश्व ) द्रवति ऊर्ध्वमिति द्रुः । शतधा द्रवतीति शतद्रुः ॥ (सुबोधिनी) - द्रश्च ॥ दु गतौ अस्मात् कुः स्यात् स च डित् ॥ द्रवतीति दुः वृक्षः शाखा च । तद्वान् द्रुमः ॥ शतदुः । 'शतद्रुस्तु शुतुद्रिः स्यात्' इत्यमरः ॥
( मृगय्वादयो निपात्याः ) मृगं यातीति मृगयुः । शङ्कुः । नीलङ्गुः कृभिविशेषः । ( मन्द्यादेरुरः ) मदि मन्दुरा । वाशुरा मथे हिंसायाम् । मथुरा । चते याचने । चतुरः । अङ्कुरः ॥
(सुबोधिनी) - मृगय्वादयो निपात्याः ॥ कुप्रत्ययान्ता निपात्यन्ते ॥ या प्रापणे ॥ आतोऽनपीत्यालोपः । मृगं यातीति मृगयुः । ' मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि ।' इति मेदिनी ॥ मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि ।' इति विश्वः । शकि शङ्कायाम् । शङ्कतेऽस्मादिति शङ्कुः । " शकुः कीले गरे शस्त्रे संख्यापादपभदेयाः । पादभेदे च पापे च स्थाणावपि च दृश्यते ॥” इति विश्वः ॥ ' शङ्कुर्ना कीलशल्ययोः ॥' लगि गतौ अस्मात् कुप्रत्यये दीर्घे च निपातनात्कृते नीलङ्गुः । केचित्तु नीलशब्दे उपपदे गमेः कुप्रत्यये टिलोपः पूर्वपदस्य मुम् पाक्षिकदीर्घश्च निपात्यत इत्याहुः। ‘नीलङ्गुः कृमिजातौ स्याद्भ्रमरालीप्रसूतयोः ।' इति विश्वः ॥ 'नलिङगुः पुंसि भ्रमराल्यां तु योषिति।' इति मेदिनी ॥ नीलङ्गुरपि नीलगुः । ' इति । विश्वः । मन्द्यादेरुरः ॥ उरप्रत्ययः स्यात् ॥ उरप्रत्ययमाह-मदि स्तुत्यादौ । मन्दुरा |