________________
(२५८) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ]
(सुबोधिनी) रपेरस्येच्च ॥ रपेः कुप्रत्ययः स्यादकारस्येच्च ॥ रप गतौ । अनिष्टं रपतीति रिपुः॥ __ (अर्जिशिकम्यमिपशिबाधामृजिपशितुक्धुकदीर्घहकाराश्च) अर्जयति गुणानिति ऋजुः। सर्वानविशेषेण पश्यतीति पशुः । कमु कान्तौ । कन्तुः । अन्धुः। पांशुः। बाधते इति बाहुः॥
(सुबोधिनी)-अर्जिशिकम्यमिपशिबाधामृजिपशितुक्धुकूदीर्घहकाराश्च ॥ अर्ज अर्जने। अस्य ऋजिरादेशः। षड्भ्यः कुप्रत्ययश्च । अर्जयति गुणानिति ऋजुः ॥ दृशिर प्रेक्षणे । अस्य पशिरादेशः । पशुः । चादिगणेऽपि पठितः ।
पशु दृश्यर्थमव्ययम् ।' इति धरणिः ॥ कमु कान्तौ । अस्य तुगागमः । कन्तुः । 'कन्तुर्मकराकरः।' इति त्रिकाण्डशेषः॥अम रोग। अम गत्यादौ वा। अस्य धुगागमः। अन्धुः कूपः॥पशि नाशने सौत्रः। अस्य दीर्घः। पांशुः। पडि पसिनाशने। चुरादिर्दन्त्यान्तो वा । 'पांसुर्ना न द्वयो रजः।' इत्यमरः॥ "तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः।” इति ॥ बाधृ लोडने । अस्य हान्तादेशः । बाहुः । 'बाहुः स्त्रीपुंसयो(जे।' इत्यमरः ॥ अकारान्तोऽप्ययम् । 'बाहश्च भुजयोः पुमान् ।' इति दामोदरः॥ आवन्तोऽपि । " बाहा भुजे पुमान्मानभेदाभवृषवायुषु ।” इति मेदिनी ॥ .
(प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च) पृथुः । मृदुः॥ (सुबोधिनी)-प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ॥ त्रिभ्यः कुप्रत्ययः स्यात् त्रयाणां संप्रसारणं च भ्रस्जेः सलोपश्च ॥ प्रथ प्रख्याने। प्रथते इति पृथुः । 'पृथु स्यान्महति त्रिषु । त्वक्पव्यां कृष्णजीरेऽथ पुमाननौ नृपान्तरे॥' इति मेदिनी॥ म्रद मर्दने । म्रदितुं शक्यते अकठिनत्वादिति मृदुः कोमलः ॥
(न्यवादेः कः) न्यकुः । भृजति तपसा इतिभृगुः॥ (सुबोधिनी)-न्यवादेः कुः । न्यङ्कवादिगणे कुत्वं निपात्यते ॥ नितरामश्चतीति न्यङ्कुः । भ्रस्ज पाके ॥ न्यवादित्वात्कुत्वम् । भृगुः । 'भृगुः शुक्र प्रधाने च जमदग्नौ पिनाकिनि।' इति विश्वः॥
(लघिबंडोनलोपश्च ) लघः ॥ (सुबोधिनी)-लधिबह्योनलोपश्च ॥ लघि गतौ । लघुः। 'पृक्कायां स्त्री लघु क्लीवं शीघ्र कृष्णाऽगुरुण्याप।' इति त्रिकाण्डशेषः ॥ “लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् । शीघ्र कृष्णागुरुणि च पृक्कायामोषधौ स्त्रियाम् ॥” इति मेदिनी।।
(वालमूललध्वगुलीनां वा लस्य रः) वालः-वारः। मूलम्मूरम् । लघुः-रघुः । अङ्गुलिः-अङ्गुरिः । बाहि गतौ । बहुः॥