________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(२५७) (जनेस्तश्च ) जतु ॥ (सुबोधिनी)-जनेस्तश्च ॥ तान्तादेशः स्यादुप्रत्यये ॥ जनी प्रादुर्भाव। जायते इति जतु लाक्षा ॥
(वलेगु च )वल संवरणे । वल्गुः ॥ (सुबोधिनी)-वलेणुक च ॥ गुगागमः स्यादुप्रत्यये ॥ वल संवरणे । दन्तोठयादिः । वल्गुः । “वल्गुःन्याच्छागले पुंसि सुन्दरे चाभिधेयवत्।” इति मेदिनी॥
(नमे किश्च) नम्यतेऽनेनेति नाकुः॥ (सुबोधिनी )-नमे किश्च ॥ णम प्रहत्वे शब्दे च। नाकुः । “वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ।” इत्यमरः॥ . (तत्त्वदी ०)-नाकुर्वल्मीकम् ।। (श्यतेः कुः सव:) शिशुः॥ (सुबोधिनी)-श्यते । सवञ्च ॥ कुप्रत्ययः स्यात् स कु: सप्रत्ययवद्भवति॥ तेन सप्रत्यये यत्कार्य द्वित्वादि तत्स्यात्। कुप्रत्ययमाह-कित्त्वान्न गुणः। शो तनूकरणे। कुप्रत्यये संध्यक्षराणामित्यासम् । द्वित्वम् । यः से इति पूर्वस्येत्वम् । आतोऽनपीत्या; लोपः। शिशुर्वालकः ॥
(यानोईिश्च) यर । बभ्रुः॥ (सुबोधिनी)-याधीदिश्च ॥ आभ्यां कुः स्याद्धातात्विं च ॥ या प्रापणे. भृञ् भरणे । यातीतिं ययुः । भरतीति बभ्रुः । 'ययुरश्वोऽश्वमेधीयः' "बभ्रुर्वैश्वानरे शूलपाणौ च गरुडध्वजे । विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत्॥” इति मेदिनी। "बभ्रुमन्वन्तरे विष्णौ बभ्रुकुलपिङ्गलौ।” इति धराणः ॥ चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पाठकः ॥
(व्यधेः कुः) विधुः ॥ (सुबोधिनी)-व्यधेः कः॥ कुप्रत्ययः स्यात्।।व्यध ताडने।ग्रहामिति संप्रसारणमाविरहिणं विध्यतीति विधुः। “विधुःशशाङ्के कर्पूरे हृषीकेशे च राक्षसे।” इति विश्वः।
(कृग्रोरुरङ् च) करोतीति कुरुः । गृ शब्दे । गणातीति गुरुः॥ (सुबोधिनी) कृयोरुरच ॥ आभ्यां कुः स्यादुरङन्तादेशश्च॥ डुकृञ् करणे। गृ शब्दे । करोतीति कुरुः। “कुरुपान्तरे भक्ते पुमान्पुंभन्नि नीवृति।" इति मेदिनी॥ गृणाति तत्त्वमिति गुरुः।
( रपेरस्येच्च ) अनिष्टं रपतीति रिपुः ॥