________________
(२५६)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः] स्वर्वज्रम् ॥त्रपुरिति ॥ त्रपतेऽग्निं दृष्ट्वा त्रपुः । 'रङ्गसीसकयोस्त्रपुः । 'पुंसि भूम्न्यसवः प्राणाः ।' 'वसु तोये धने मणौ ।' 'हनुः पुमान् परो गण्डात्॥'बन्धुः।स्नेहेन बध्न ति ।। मनुरादिराजो मन्त्रश्च ॥
(स्यन्देःसंप्रसारणं धश्च) सिन्धुः॥ (सुबोधिनी) स्यन्देः संप्रसारणं धश्च ॥ स्यन्दू पस्रवणे । अस्य यकारस्य संप्रसारणं दस्य धश्च स्यादुप्रत्यये ॥ सिन्धुः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ।' इत्यमरः॥ (तत्त्वदी०) सिन्धुरिति ॥ 'देशे नदविशेषेऽन्धौ सिन्धुन सरिति स्त्रियाम् ।' इत्यमरः ।
(उन्देरिच्चादेः) उनत्तीति इन्दुः॥ (सुबोधिनी)-उन्देरिच्चादेः॥ उन्दी क्लेदने । अस्योकारस्य इः स्यादुप्रत्यय ॥ इन्दुः ॥
(स्कन्देः सलोपश्च) कन्दुः ॥ (सुबोधिनी)--स्कन्दः सलोपश्च ॥ स्कन्दिर गति षणयोः । अस्य सस्य लोपः स्यादुप्रत्यये ॥ स्कन्दति शोषयतीति कन्दुः। क्लीवेऽम्बरीषं भ्राष्ट्रो ना कन्दु स्वेदनी स्त्रियाम् ।' इत्यमरः ॥ स्कन्दति जनता यस्मिन्निनि व्युत्पत्त्या भोगस्थानं कन्दुरिति केचित् ॥ (तत्त्वदी०)-कन्दुरिति ॥ स्कन्दत्यस्मिञ्जनता इति कन्दुर्भोगस्थानम् ॥ (सृजेरसुम् सलोपश्च ) रज्जुः॥ (सुबोधिनी)-सृजेरसुम्सलापश्च॥सृज विसर्गे।आमसकारस्य श्चुत्वेन शः। झवे जबा इति जः । सृजतीति रज्जुः । 'रज्जुर्वेण्यां गुणे योषित्' इति मेदिनी ॥ (तत्त्वदी०)-रज्जुरिति ॥ सस्य श्चुत्वेन शस्तस्य जः ॥ (फलेगुक् च) फल्गुः । (सुबोधिनी)-फलेमुक च॥ फल निष्पत्तौ । फल्गुः । फल्गुः काकोदुम्बरिका भवेत्फल्गु निरर्थकम् ।” इति हैमः॥ नदी च ॥
(पाटेः पटिश्च) पाटयतीति पटुः समर्थः।।. (सुबोधिनी)-पाटेः पटिश्च ॥ पटिरादेशः स्यात् ।' पट गतौ ञ्यन्तः। पाटयतीति पटुः॥ - (मनेर्धश्च ) मन ज्ञाने । मधुः ।।
(मुबोधिनी)-मनेर्धश्च ॥ धान्तादेशः स्यादुप्रत्यये ॥ मन ज्ञाने । मन्यत इति मधुः । मधुश्चैत्रे च दैत्ये च मद्ये पुष्परसे मधु।' इति हेमचन्द्रः॥"मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः। अर्द्धर्चादिगणे पाठात् पुनपुंसकयोर्मधु ॥” इति शाश्वतः ।