________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(२५५) (सुबोधिनी)-म्रादेरुः॥ उप्रत्ययः स्यात् ॥ उप्रत्ययमाह-मृङ् प्राणत्यागे । म्रियन्तेऽस्मिन्भूतानीति मरुः निर्जलदेशः। भृज्ञ भरणे । दुभृज्ञ धारणादौ च । भरति बिभर्ति वा भरुः। 'भरुःस्वर्णे हरे पुसि' इति मेदिनी॥ भर्भर्तृकनकयोः इति हैमः।। शीङ् स्वने । शेत इति शयुः। 'अजगरे शयुर्वाहस इत्युभो ।' इत्यमरः ।। त प्लवनतरणयोः। तरन्ति नरकमनेन रोपका इति तरुवृक्षः॥ चर गत्यादौ । चरन्ति भक्षयन्ति देवा इममिति चरुः। 'चरुर्भाण्डे च हव्याने' इति विश्वः । घृतपक्वमन्नमित्यर्थः ।। त्सर छद्मगतौ । सरुः खङ्गादिमुष्टिः॥ तनुविस्तार । तनुः । "तनुः काय त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे ।" इति मेदिनी ॥ 'स्त्रियां मूर्तिस्तनुस्तनुः' इत्यमरः ॥ धन धान्ये । धनुः। स्यात्तनुस्तनुषा सार्धं धनुवा च धनुर्विदुः।” इति विश्वः ॥ उकारान्ते श्रीहर्षः-"शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः । क्षिप्नुरेनमृजुमाशु सपक्षं सायकं धनुरिवाजनि वक्रः॥” 'धनुः पुमान् प्रियालद्रौ गशिभेदे शरासने'। इति सान्ते मंदिनी ॥ 'अथास्त्रियां धनुश्चापौ' इत्यमरः॥डुमिञ् प्रक्षेपणे। मीनातिमिनोतीत्यात्वं तु नेह बाहुलकात् । मयुः । 'तुरङ्गवदनो मयुः । इत्यमरः॥ मयुस्तुरङ्गवदने मृडोऽपि मयुरिष्यते।' इति विश्वः ॥ टुमस्जा शुद्धौ । मजति पानीये इति न्यछादित्वाद्गः । झबे जवा इति सस्य दः । मद्गुः । 'मद्गुः पानीयकाकिका ।' इति रभसः। अण अब्दे । अणुः। व्रीहिभेदस्त्वणुः पुमान्।' इति 'लवलेशकणाणवः।' इति चामरः। कटे वर्षादौ । कटति रसनामिति कटुः। “कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । नपुंसकमकार्ये स्थात्पुंल्लिङ्गो रसमात्रके ॥ त्रिषु तद्वत्सुगन्धश्च मत्सरेऽपि खरेऽपि च ।" इति मेदिनी ॥ वट वेष्टने। वटतीति वटुः । 'वटुर्दिजसुतः स्मृतः।' इति संसारावर्तः । श हिंसायाम् । शरुः। 'शरुःकोपे शरे वज्र' इति हैमः ॥स्थ शब्दोपतापयाः।स्वरुः। 'शतकोटिः स्वरुः शम्बः' इत्यमरः॥त्रपूष् लज्जायाम् । अग्निं दृष्ट्वा प्रपंत लज्जते इति त्रपुः । रंगसीसकयोस्त्रपुः।' इति मंदिनी ॥ असु क्षेपणे । अस्यन्ति क्षिपन्ति शरीरमिति असवः । 'पुंसि भूम्न्यसवःप्राणाः'इत्यमरः ।। वस निवासे । वसुः । “वसुमैदेऽग्नौ योकोऽशौ वसु तोये धने मणौ॥"हन हिंसागत्योः। हनुः । हनुः पुमान् परो गण्डात्' इति वररुचिकोशः॥ स्त्रीलिङ्गेऽप्ययम् । “हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोलावयवे" इति मेदिनी ॥ मतुप्रत्यये हनुमान् । पाक्षिको दी?ऽपि निपात्यते । हनूमान्॥बन्ध बन्धने । स्नेहेन बन्नातीति बन्धुः। 'वन्धुर्बन्धूकपुष्प स्याद्वन्धु_तरि बान्धव ।' इति विश्वः ॥ मन ज्ञाने । मनुः । आदिराजो मन्त्रश्च ॥ विदि अवयवे । बिन्दुः ॥
(तत्त्वदी०)-म्रादेरिति॥भरुरिति॥ भरुः स्वर्णेहरे पुंसि'इति मेदिनी ॥ भर्भर्तृकनकयोः' इति हेमचन्द्रः ॥ शयुरिति ॥ अजगरे शयुः ॥ तरुरिति ॥ तरन्ति नरकमनेन रोपकाः ।। चरुरिति ॥ 'चरुर्भाण्डे च हव्याने' इति विश्वः॥ त्सरुः खड्गमुष्टिः॥ तनुः स्वल्पः। मूर्ती स्त्रियाम्॥ धनुः शस्त्रविशेषे । 'धनुषा च धनुर्विदुः ॥' मयुः किन्नरः ॥ अणुर्लेशः ॥ 'वटुर्द्विजसुतः स्मृतः।