________________
(२५४)
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्ते उणादयः ]
.: (तत्त्वदी ० ) - क्रादेरिति ॥ कृ आदिर्यस्य स क्रादिस्तस्मात् । वापाजिमिस्वदीत्यादय आदिशब्दप्राह्याः । णो वृद्ध्यर्थः ॥ कारुरिति || ' कारुः शिल्पिनि कारके । द्वितीयेऽर्थे योगमात्रम्। 'राघवस्य ततः कार्यं कारुर्वानरपुंगवः' इति भट्टिश्चात एव ॥ वायुरिति ॥ आतो युक् ॥ पायुरिति ॥ पिबत्यनेनौषधमिति पायुर्गुदम् । 'गुदं त्वपानं पायुर्ना' इत्यमरः ॥ जाखुरिति ॥ जयति रोगानिति
रौषधम् । 'भेषजौषधभैषज्यान्यगदो जायुः' इत्यमरः । मिनोतीति । प्रक्षिपति देहे ऊष्माणमिति । ‘मायुः पित्तं कफः श्लेष्मा' इत्यमरः ॥ स्वदते रोचते इति स्वादु मिष्टम् ॥ साध्नोति परकार्यमिति साधुः॥ अश्नुते इत्याशुहिभेदः शीघ्रार्थश्च । विलम्बाभाव मात्रपरत्वे क्लीम् । तद्विशिष्टद्रव्य'परत्वे तु त्रिलिङ्गम् ।‘त्रिष्वेषां भेद्यगामि यत्' इत्यमरोक्तेः ॥
( जनेर्जुञ् ) जानु । चारु । चाटु । किंशृणातीति किंशारुः । जरामेति जरायुः ॥ (सुबोधिनी) - जने । जुञप्रत्ययमाह - ञकारावितौ । अनुबन्धद्वयसामर्थ्यात् जानेवध्योर्नेति वृद्धिनिषेधो न प्रवर्तते । जन जनने । जानु, जानुनी ॥चर गतौ। चारु रम्यम् ॥ चट भेदन | चाटु | 'चटु चाटु प्रियं वाक्यम्' इति हेमचन्द्रः ॥ 'चाटुर्नस् . प्रियोक्तिः स्यात्' इति रत्नमाला ॥ तथा च माघः 'चकर च किल चाटून्प्रौढयोषिद्वदस्य' इति । स एव क्लीवेऽपि । 'चाटु चाकृतकसंभ्रममासाम् इति । शू हिंसायाम् ॥ किंशारुः। ‘किंशारुर्ना सस्यशूके विशिखे कङ्कपक्षिणि ।' इति मेदिनी ॥ इण गतौ । वृद्धौ कृतायामायादेशे च जरायुः गर्भाशयः ॥
(तत्त्वदी० ) - जनेञिति ॥ 'चटु चाटु प्रियं वाक्यम्' इति हेमचन्द्रः ॥ ' चाटुर्न रि प्रियोक्तिः स्यात्' इति रत्नकोशात्पुंस्त्वमपि । तथोभयत्रोदाहृतं माघेन - 'चाटु चाकृतकसंभ्रममासाम् ॥” "चकर च किल चाटून्प्रौढयोषिद्वदस्य' इति च ॥ 'किंशारुर्ना सस्यशु के विशिखे कङ्कपक्षिणि' इति। ( त्रोरस्य लः ) तरन्ति वर्णा अनेनेति तालु ॥
(सुबोधिनी ) - त्रोरस्य लः । ऋ इति प्रश्लिष्य द्वयोरपि सवर्णे दीर्घे कृते त्र तयोस्त्रोः । तृप्लवनतरणयोः । ऋ गतौ । अनयोरस्य लः स्यात् ॥ उणि वृद्धौ सत्यां तालु || इयर्ति अर्यते वा आलुः । शाकविशेषो घटी चा 'कर्कर्यालुर्गलन्तिका' इति ॥ ( कृके वचः कश्च ) कृकेन गलेन वक्तीति कृकवाकुः ॥
(सुबोधिनी ) - कृके वचः कश्च ॥ कृकशब्दे उपपदे वचेः कोऽन्तादेशः स्यादुणि कृकवाकुः । 'कृकवाकुर्मयूरे च सरटे चरणायुधे ' इति विश्वः ॥
( म्रादेरुः ) मरुः । शयुः । तरुः । चरुः । त्सर छद्मगतौ । त्सरुः । तनुः । धनुः । मयुः । कटुः । बटुः । अणुः । शृणातीति शरुः । स्वरुः । त्रपुः । असवः । वसुः । हनुः । बन्धुः । मनुः । बिन्दुः ॥
1