________________
[ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता ।
(२५३) अतिशयन चलतीति चाचल्यते । चाचलांचके इति चाचलिः ॥ अतिशयेन पततीत पनीपत्यन्ते। पनीपतांचक्रे इति। वञ्चुस्रंसु इति प्राप्तस्य नीकोऽभावो निपात्यते। पापतिः ॥ “रामःसोमं पपिर्यज्ञे ददिर्गाश्चक्रिरद्भुतम् । याजकान्वबिराजह्निः पौण्डरीके महाद्विजान्॥"रामो यज्ञ सोमं पपाविति पपिः।अक्तादाविति वर्जनान्न कर्मणि षष्ठी । रामो यज्ञ गाः सुरभीः ददाविति ददिः। रामो यज्ञे अद्भुतमाश्चर्यं चकारोत चक्रिः। रामो यज्ञे याजकान् यज्ञकर्तृन् वव्रे इति वत्रिः। रामः पौण्डरीकनाम्नि यज्ञे महान्तश्च ते द्विजाश्च महाद्विजास्तान् आजहारोत आजहिः ॥
(तत्त्वदी०)-आदृत इति ॥ आच ऋच तत्तस्मात् । लिङ्घद्भावान्नेमिरित्यादावेत्वपूर्वलोपौ। जम्मिरिति ॥ गमां स्वर इत्यलोपः ॥
अथोणादयः। (क्रादेरुण ) कारुः। वातीति वायुः। पायुः। जायुः। मिनोतीति मायुः । स्वद आस्वादने स्वादुः । साधुः। आशुः । दीर्यते इति दारुः। सानुः॥
(सुबोधिनी)-अथोणादयः॥क्रादेरुण्॥ उण् प्रत्ययःस्यात्॥ उणूप्रत्ययमाहणित्वाद् वृद्धयादि। डुकृञ् करणे । करोतीति कारुः शिल्पी कारकश्च। तत्राद्ये योगरूढिदितीये तु योगमात्रमिति विवेकः। अत एव यौगिके तु धात्वर्थ प्रति कारकान्वयो भवत्येव । तथा च भट्टिः"राघवस्य ततः कार्य कारुर्वानरपुंगवः । सर्ववानरसेनानामाश्वागमनमादिशत्॥" इति ॥ "विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः।” इति मेदिनी ॥ 'कारुः शिल्पिान कारके' इति धरणिः॥ वा गतिगन्धनयोः । आतो युगिति युक् । वायुः॥पा पाने । पा रक्षणे च । पिवत्यनेन तैलादिकमिति पायुः। युक । 'गुदं त्वपानं पायुर्ना' इत्यमरः ॥ पाति रक्षतीति विग्रहे रक्षकोऽपि पायुः ॥ जि अभिभव । जयत्यभिभवात रोगान् इति जायुः औषधम् । 'भेषजौषधभैषज्यान्यगदो जायुः इत्यमरः॥ पुंलिङ्गसाहचर्याजायुः पुंसि ॥ डुमिज प्रक्षेपणे । मिनोति प्रक्षिपति दहे ऊष्माणमिति। मीनातिमिनातिदीङामित्यात्वम् युक् च । मायुः। मायुःपित्तं कफः श्लेष्मा इत्यमरः ॥ गां वाचं विकृतां मिनोति प्रक्षिपतीति गोमायुः शृगालः ॥ स्वद आस्वादन। स्वदते रोचत इति स्वादुः॥ साध संसिद्धौ। सानोति परकार्यमिति साधुः । स्वादुसाधू विशेष्यनिनौ ॥ अशूङ् व्याप्तौ । अश्नुते इत्याशुः । 'आशु/हिः पाटल: स्यात् । शघ्रिार्थोऽप्ययम् । तत्र विलम्बाभावमात्रपरत्वे क्लीवः । तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गः । अथ शघ्रिं त्वरितमित्युक्तम् । "क्लीवे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां भेद्यगामि यत् ।” इत्यमरः ॥ दृ विदारणे। दीर्यते इति दारु । 'काष्ठं दार्विन्धनं त्वेधः' इत्यमरः ॥षण दाने । सानुः । 'स्नुः त्रस्थः सानुरास्त्रियाम्' इत्यमरः ॥