________________
(२५२)
सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (विन्दुरिच्छुरेतौ निपात्यौ) वेत्ति तच्छीलो विन्दुः । इच्छतीतीच्छुः ॥
(सुबोधिनी)-विन्दुरिच्छरौ निपात्यौ॥वेत्तेर्नुम् इषेश्छत्वं च निपात्यते।। विद ज्ञाने इत्यस्यैव ग्रहणं नेतरेषाम् । इषु इच्छायामित्यस्यैव ग्रहणं न तु इष गतौ इष आभीण्ये इत्यनयोरनभिधानान्निपातनाद्वा । वेत्तीत्येवंशीलो विन्दुः। इच्छतीत्येवंशील इच्छुः बिन्दुशब्दःपवर्गीयादिस्तु बिदि अवयवे अस्मान्मृगय्वादित्वात्कुप्रत्यये बोध्यः।। (तत्त्वदी० )-विन्दुरिच्छुरिति॥वेत्तेर्ज्ञानार्थस्य नुमागमः॥एवमिषेरिच्छार्थस्य छत्वमुप्रत्ययश्च।।
(स्वपितृषिधृषेनजिङ्) स्वप्नक् । तृष्णक् । धृष्णक ॥ __ (सुबोधिनी )- स्वपितृषिधृषेनजिङ्॥ एभ्यो नजिङ् प्रत्ययः स्यात् ॥नजि
प्रत्ययमाह । ङित्त्वान्न गुणः । इकारः उच्चारणार्थः । विष्वप् शये । चोः कुरिति जस्य गः। स्वामक ॥ तृष पिपासायाम् । तृष्णक् ॥ जिघृषा प्रागल्भ्ये । धृष्णक् ॥ (तत्त्वदी०) स्वपि ॥ धृष्णगिति ॥ ङित्त्वान्न गुणः ॥ (स्थादेर्वरः ) स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ।।
(सुबोधिनी)-स्थादेर्वरः ॥ एभ्यो वरप्रत्ययः स्यात् ॥ वरप्रत्ययमाह-ष्ठा गतिनिवृत्तौ । स्थावरः ॥ ईश ऐश्वर्ये । हबक्त्योरितीन । ईश्वरः॥ भासू दीप्तौ भास्वरः। पिस गतौ । पेस्वरः ॥ कस गतौ । कस्वरः ॥ (तत्त्वदी० )ईश्वर इति ॥ हबक्क्योरिति नेट् ।
आहतः किर्द्धिश्च भूते ॥ आदन्तादृदन्ताजनिगमिनमिभ्योयङन्तेभ्यः सासहिवावहिचाचलिपापतिभ्यः किप्रत्ययो भूते शीले धातोश्च द्वित्वं किलिड्वद्वाच्यः ॥ "रामः सोमं पपिर्यज्ञे ददिर्गाश्चक्रिरद्भुतम् । याजकान्वविराजहिः पौण्डरीके महाद्विजान् ॥" जज्ञिः। नेमिः । जग्मिः । सासहिः । वावहिः। चाचलिः। पापतिः॥
(सुबोधिनी)-आदृतः किद्विश्च भूते ॥ किप्रत्ययमाह--कित्त्वान्न गुणः। किप्रत्यये द्वित्वादि । पा पाने । द्वित्वादि। आतोऽनपीत्यालोपः। पपिः॥ डुदाञ् दाने । ददिः ॥ डुकृञ करणे । चक्रिः ॥ वृङ् संभक्तौ । र इत्यः । वविः ॥ हज हरणे । आजहिः॥ जनी प्रादुर्भावे । गमामित्युपधालोपः । जज्ञिः ॥णम प्रदत्वे शब्दे च । लोपः पचामित्येत्वपूर्वलोपौ । नेमिः ॥ गम्ल गतौ । गमामित्युपधालोपः । जग्मिः ।। पह मर्षणे । वह प्रापणे । चल कम्पने । पत्ल पतने। एते यङन्ताः ।अतिशयेन सहते इति।आत इति पूर्वस्पात्वम् । सासह्यते । सासहांचके इति । यत इत्यलोपः। अनपिच हसाादेति यलोपः। सासहिः॥अतिशयेन वहतीति वावह्यते । वावहां चक्रे इति वावहि ।