________________
[पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२५१) (तत्त्वदी०)-विदिभिदीति ॥ ज्ञानार्थे विदिाख्यानात् । छिदुरमिति ॥ कर्मकर्तरीति कश्चित् । भाष्ये तु न तथा । एवमाद्योऽपि प्रागुक्त एव मुख्यकर्तरि । 'गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गनाः' इति ॥
(इण्नशजिसर्तिभ्यः करट्प) ह्रस्वस्य पिति तुक् ॥ इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः। गमेर्लोपश्च । गत्वरः॥
(सुबोधिनी)-इणनशजिसर्तिभ्यः करटप् ॥ एभ्यः वरटप् प्रत्ययः स्यात् करट्पप्रत्ययमाह । कित्त्वान्न गुणः । टित्त्वात् ष्टवित इतीप् । पित्त्वात्तुक् । इण गतौ । इत्वरः । इत्वरी स्त्री ॥ णश अदर्शने । नश्वरः ॥ जि जये। जित्वरः ॥ सृ गतौ । सृत्वरः । गम्ल गता । मलोपो निपात्यते । गत्वरः ॥ (तत्त्वदी०)-इत्वरः । हस्तस्येति तुक् । ट् ईबर्थः ॥ (जागरूकः) जागरूकः ॥ (सुबोधिनी)-जागर्तेरूकः ॥ ऊकप्रत्ययः स्यात् ॥ ऊकप्रत्ययमाह-जागृ निद्राक्षये । जागरूकः॥
यङ ऊकः॥ यजजपदशवदिभ्यो यङन्तेभ्य ऊकः शीले लुक्॥ ऊके सति यङो लुक् ॥ यायजूकः । जञ्जपूकः । दंदशकः । वावदकः॥
(सुबोधिनी)-यङ ऊकः ॥ यजादिभ्यो यङन्तेभ्य ऊकः स्यात् । यजेङि कृते. द्वित्वादि । आत इति पूर्वस्य दीर्घतिशयेन यजतीति यायज्यते, यायज्याते इति यायजूकः॥जप व्यक्तायां वाचि। अतिशयेन जपतीति।अमजपामिति नुक । जंजप्यते, जंजप्यते इति जंजपूकः॥दश दशने।अतिशयेन दशतीति । नुक । दंदश्यते, दंदश्यते इति दंद शूकः । नो लोप इति नलोपः ॥ वद व्यक्तायां वाचि । अतिशयेन वदतीति वावद्यते, वावद्यते इति वावदूकः ॥
(भियः क्रुस्क्लकाः) भीरुः । भीरुकः । भीलुकः ॥ (सुबोधिनी)-भियः नुक्रुकक्लुकाः॥ त्रिभी भये । अस्मादेते प्रत्ययाः स्युः॥ कुकुकक्लुकप्रत्ययानाह-कित्त्वान्न गुणः । भीरुभीरुकभीलुकाः' इत्यमरः॥
(नमादे रः) नम्रः । स्मेरः । कम्प्रः । नपूर्वाजसेः क्रियासातत्ये अजस्रम् । कम्रः। हिंस्रः । दीप्रः॥
(सुबोधिनी) नमादे रः॥रप्रत्ययः स्यात् ॥रप्रत्ययमाह-णम् प्रवत्वे शब्दे च। नम्रः। कपि चलने । कम्पः ॥ ष्मिङ इषद्धसने । स्मेरः ॥ जसु मोक्षणे नपूर्वः। ना इत्यः। अजस्रम् ॥ कमु कान्तौ। कम्रः॥ हिसि हिंसायाम् । हिंस्रः ॥ दीपी दीप्तौ । दीपः॥