SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (२५०) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्त प्रक्रिया ] त्युक्तत्वात् । अतस्तद्व्यावृत्तये तदन्तविधिः स्यादित्यादिग्रहणम् ॥ वर्तन इति ॥ वर्तते तच्छील इति विग्रहः । अनुदात्तेतः किम् । भविता ॥ हसादेः किम् ||एधिता || अकमकात्किम् ॥ वसिता वस्त्रम् ॥ ( ज्वादेश्व ) जुगत वेगे च । जवनः । सरणः । गर्द्धनः। क्रोधनः । रोषणः । मण्डनः । भूषणः ॥ (सुबोधिनी ) – ज्वादेश्च ॥ युः स्यात् ॥ जुगतौ वेगे च । जवनः ॥ सृ गतौ । सरणः ॥ गृधु अभिकाङ्क्षायाम् । गर्द्धनः ॥ क्रुध क्रोधे । क्रोधनः। रुप रोषे । रोषणः । माडे भूषायाम् । मण्डनः ॥ भूष अलंकारे । भूषणः ॥ ( ज्यादरिनिः ) जयी । प्रजवी । दरी । क्षयी ॥ (सुबोधिनी ) – ज्यादेरिनिः ॥ इनिप्रत्ययः स्यात् ॥ इनिप्रत्ययमाह-इकार उच्चारणार्थः ॥ जिजये । जि अभिभवे च । इनामिति दीर्घः । जयी ॥ जुगतौ वेगे च । प्रजवी ॥ दृडू आदरे । दरी || क्षि क्षये । क्षि निवासर त्योश्च । क्षयी ॥ ( दादेरुः ) दारुः । धारुः । सेरुः ॥ (सुबोधिनी) - दादेरुः ॥ रुप्रत्ययः स्यात् ॥ रुप्रत्ययमाह - डुदाञ् दाने । दो अवखण्डने । देङ् पालने । त्रयाणामेषां ग्रहणम् । दारुः । न तु दादापेोर्ग्रहणम् ॥ डुधाञ् धारणादौ । धारुः । षिञ् बन्धने । सेरुः ॥ ( सृघस्यदः क्मरः ) सृमरः । घस्मरः । अद्मः ॥ ( सुबोधिनी ) - घस्यदः क्मरः ॥ क्मरप्रत्ययः स्वात् ॥ क्मरप्रत्ययमाह - कित्त्वाद्गुणो न । सृ गतौ । सृमरः ॥ घस्ल अदने । घस्मरः ॥ अद भक्षणे । अझरः ॥ ( भभासमिदो घुरः ) भङ्गरः । भासुरः । मेदुरः । ( सुबोधिनी) - भञ्जभासमिदो घुरः ॥ एभ्यो घुरप्रत्ययः स्यात् ॥ घुरप्रत्ययमाह-घित्वात् चजोरिति गः । भओ आमर्दने । भङ्गुरः ॥ भासृ दीप्तौ । भासुरः ॥ ञिमिदा स्नेहने । मेदुरः ॥ (तत्त्वदी० )-भञ्जभासमिद इति ॥ भजेः कर्मकर्तरि । अभिधानस्वाभाव्यमत्र हेतुः ॥ (विदिभिदिच्छिदेः कुरः ) विदुरः । भिदुरम् | छिदुरम् ॥ (सुबोधिनी) - विदिभिदिच्छिदेः कुरः ॥ कुरप्रत्ययः स्यात् ॥ कुरप्रत्ययमाह - कित्त्वाद्गुणो न । विद ज्ञाने अस्यैव ग्रहणं न तु विद्ल लाभ इत्यस्य संप्रदायात् । विदुरः ॥ भिदिर् विदारणे । भिदुरम् ॥ छिदिर द्वैधीकरण | छिदुरम् ॥ कुरः कर्तरि भवति । तथा च माघः 'प्रियतमाय वपुर्गुरुमत्सर च्छिदुरयादुरयीच तमङ्गनाः" इह अदुरिति च्छेदः ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy