________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२४९) दमी । श्रमी । भ्रमी । क्षमी।मी। प्रपूर्वस्य मदेर्दीर्घः। प्रमादी। आदिशब्देनान्येऽपि ग्राह्याः । पृची संपर्के । चजोरीत कः। संपर्की ॥ युज समाधौ । युजिर योगे वा । योगी ॥ विचिर पृथग्भावे । विवेकी । त्यज हानौ । त्यागी ॥ राज दीप्तौ । रञ्ज रागे वा। रागी॥भज सेवायाम् । भागी॥ कष् हिंसायाम् । विकाषी॥ लसश्लेषणक्रीडनयोः । विलासी ॥ लप व्यक्तायां वाचि । प्रलापी ॥ स गतौ । प्रसारी॥ मथे विलोडने । प्रमाथी ॥ वस निवासे । प्रवासी ॥
(तत्त्वदी०) शमादिभ्य इति ॥ घो घित्कार्यार्थः । उकार उच्चारणार्थ इति वृत्तिः । उदिदिति भाष्यम् । तेन शमिनित्रा-शमिनीतरेत्यत्र वितः परस्येति ह्रस्वो वा । शमी, शमिनावित्यत्र नुमभावस्तु झसग्रहणमपकृ' य झसान्तानामेव तद्विधानात् ॥ शमीति ॥ शमनशील इति वाक्यम् ॥ अमन्तत्वादस्वः ॥
(निन्दादेव) निन्दकः । हिंसकः । परिक्षेपकः । परिवादकः ।। ' (सुबोधिनी)-निन्दा न॥वुणप्रत्ययेनापि सिद्धे वुवचनं ज्ञापकं शीलादिवर्थेषु त्रादयो न भवन्तीति।प्रत्ययमाह-त्रित्त्वाइद्धिः। युवोरनाकावित्यकादेशः । णिदि कुत्सायाम् । निन्दकः ॥ हिसि हिंसायाम् । हिंसकः ॥ क्षिप प्रेरणे । क्षेपकः ।। वद व्यक्तायां वाचि । ज्यन्तः । रिति जिलोपः। परिवादकः ॥
(तत्त्वंदी०)-निन्दादेरिति॥वुणैव सिद्धे वुवचनं ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीति ज्ञापयति । तेनैतेषु तृन्नादयो न ।
(चलनशब्दार्थाद कर्मकायुः) चलनः। चुप मन्दायां गतौ । चोपनः । कम्पनः । शब्दनः। रवणः॥ ___ (तत्त्वदी०)-चलनशब्दार्थादकर्मकायुः ॥ चलनार्थादकर्मकाच्छब्दार्थाच्च युः स्यात् ॥ युप्रत्ययमाह-वोरित्यनादेशः । चल कम्पने । चलनः॥चुप मन्दायां गतौ । चोपनः॥कपि चलने । कम्पनः॥ शब्द शब्दने । अदन्तः चुरादिः । जेरिति जिलोपः । शब्दनः॥ शब्टे । रवणः॥ अकर्मकात् किम् । पठिता विद्याम् ।।
(तत्त्वदी०)-चलनशब्दार्थादिति ॥ चलनं देशान्तरप्राप्तिहेतुः क्रियाविशेषः । शब्दः श्रोत्रप्राह्योऽर्थः । चल कम्पने । शब्द शब्दने चुरादिः ॥
(अनुदात्तेतो हसादेरकर्मकात )वर्तनः । रमणः ॥ (सुबोधिनी)-अनुद त्तेतो हसादेरकर्मकात् ॥ युः स्यात् ॥ वृतु वर्तने । वर्तनः ॥ अनुदात्तेतः किम । भविता ॥ हसादेः किम् । एधिता ।। अकर्मकात्किम् । वसिता वस्त्रम् ॥
(तत्त्वदी०)-अनुदात्तेत इति॥यद्यपि र्सेर्वाऽनुदात्तेद्धसान्त एवातो हसग्रहणसामर्थ्यादेव हसादिर्गृह्यते,तथापि जुगुप्सादिसान्तेऽनुदात्तेत्त्वमस्ति, अवयवेकृतं लिङ्गमचरितार्थ समुदायस्य विशेषकमि