________________
(२४८)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] (तत्त्वदी०)-जल्पाक इति ॥ जल्पनशीलः । एवं सत्र शीलार्थप्रत्यये वाक्यम् । प ईबर्थः। तेन वराकी॥ जल्पभिक्षकुट्टलुण्ठवृङः षाकः। सान्ताशंसभिक्ष उः। लषपतपदस्थाभूवृषहनकमगमशृभ्य उकण् ॥
(शवन्द्योरारुः) शृ हिंसायाम् । शरारुः । वदि वन्दारुः॥ (सुबोधिनी)-शवन्द्योरारुः॥श हिंसायाम्। वदि अभिवादनस्तुत्यो|आभ्यामारुः । आरुप्रत्ययमाह-शरारुः । वन्दारुः । “शरारुर्घातको हिंस्रो वन्दारुरभिवादके” इत्यमरः ॥
(स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाशीङ्भ्य आलुः) स्पृहयालुः। गृह ग्रहणे चुरादिः। गृहयालुः । पतयालुः। दय दाने । दयालुः। द्रा कुत्सायाम् । निद्रालुः । तदो नान्तत्वम् । तन्द्रालुः। श्रद्धालुः। शीशयालुः॥
(सुबोधिनी) स्पृहिगृहिपतिदयिनिद्रातन्द्राश्र द्वाशीभ्य आलुः ॥ आलुप्रत्ययमाह-स्पृह ईप्सायाम् । गृह ग्रहणे । पत गतौ । एते त्रयश्चुरादावदन्ताः। अल्लोपस्य स्थानिवत्त्वान्नोपधाया गुणवृद्धी । रिति जिलोपो न । न त्विडामन्तेति निषेधात् । अर्गुणे कृते स्पृहयालुः। गृहयालुः। पतयालुः । दय दाने । दयालुः । द्रा कुत्सायाम् । निपूर्वः। आतोऽनपीत्यालोपः । निद्रालुः। तत्पूर्वी द्रा । तच्छब्दस्य समासे नत्वं निपात्यते । तन्द्रालुः ।। श्रत्पूर्वो डुधाञ् धाणादौ । धेट् पनि।अयं तु न गृह्यते श्रत्पूर्वस्य धेटः प्रयोगाभावात् । शीङ् स्वप्ने । यालुः कथं तर्हि कृपालुः स्पर्धालुारीत । कृपां स्पर्दा च लातीति विग्रहे मृगय्वादित्वात्कुः॥ . __ (तत्त्वदी०) स्पृहि इति ॥ स्पृहयालुरिति ॥स्पृह्यादयत्रोऽपि चुरादावदन्ताः । अल्लोपस्य स्थानिवत्त्वान्नोपधागुणवृद्धी । न विडामन्तेत्यादिना निषेधात्र्लोपो न ॥ __ (शमादिभ्यो घिनुण ) शम उपशमे। शमी। तमी । दमी । भ्रमी। क्षमी । कमी । श्रमी । प्रमादी ॥ चजोः कगो घिति ॥ चकारजकारयोः ककारगकारी घिति ॥ संपर्की । योगी । विवेकी । त्यागी।
(असि उसि अन अके घिनुणि रञ्जनलोपो वाच्यः ) रागी। भागी। विकाषी । विलासी । प्रलापी । प्रसारी । मथे विलोडने । प्रमाथी । प्रवासी।
(सुबोधिनी)-शमादिभ्यो घिनु॥शमु तमु दमु श्रमुभ्रमु क्षमु क्लमु मदीति शमादयोऽष्टौ॥घिनुणप्रत्ययमाह-उकार उच्चारणार्थः।घित्त्वाच्चजेरिति कगौ । णित्त्वात् वृद्धि। शाम्यतीत्येवंशीलः। मान्तस्य सेट इति न वृद्धिः । नामिति दीर्घःशमी।तमी।