________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२४७) (इष्णुस्नुक्नु शीले) अलंकरिष्णुः। निराकरिष्णुः । जनी प्रजनिष्णुः॥
(सुबोधिनी) इष्णुस्त क्तु शीले ॥धातोरेते प्रत्ययाः शीलेऽथे।इष्णुस्नुक्नुप्रत्ययानाह-क्नुककारो गुण नेषेधार्थः । अलंकरोतीत्येवंशीलोऽलं करिष्णुः । निराकरोतीत्येवंशीलो निराकरिष्णुः । जनी प्रादुर्भावे । प्रजायते इत्येवंशीलः प्रजनिष्णुः॥
(तत्त्वदी०) इष्णुस्तुमनु-॥इष्णुश्च स्नुश्च क्नुश्च एषां समाहारः। ञ्यन्तभ्राजभूसहचरवृधवृतप्रजनरुच्यपत्रपालंकृनिरा उत्पचोत्पतोन्मद इष्णुः ।
(जिभुवोर्नेड्गुणौ स्नौ) जि जये। जिष्णुः। भूष्णुः । ग्लास्तुः। त्रसी त्रस्नुः । गृध्नुः । निधृषा धृष्णुः । क्षिप क्षिप्तुः॥ __(सुबोधिनी)-जिभुवानेंडगुणौ स्नौ ॥ जयतीत्येवंशीलो जिष्णुः॥ भवतीत्येवंशीलो भूष्णुः ॥ ग्लायीत्येवंशीलो ग्लास्नुः ॥ त्रसी उद्वेगे । क्नुः ॥ हवक्त्योरितीन । त्रस्नुः॥ गृधु आकाङ्क्षायाम् । गृध्नुः ॥ जिधृषा प्रागल्भ्य । धृष्णुः ॥ क्षिप प्रेरणे । क्षिप्नुः ॥
(षाकोकणः) शीलार्थे षाक उ उकण् प्रत्यया भवन्ति। जल्पाकः। भिक्ष याच्आयाम् । भिक्षाकः। कुट्ट च्छेदने । कुट्टाकः दुष्टः । लुण्ठ चौर्ये । लुण्ठाकः । वृङ संभक्तौ । वराकः॥ भिक्षुः। आङः शसि इच्छायाम् । इदिती नुम् । आशसुः । चिकीर्षुः ॥ लष कान्तौ । लाषुकः। पत्ल पतने । पातुकः । तातो युक् । स्थायुकः । भावुकः । वृषु सेचने । वर्षुकः । घातुकः । कामकः॥
(सुबोधिनी)-पाकोकणः ॥ पाक उ उकण-प्रत्ययानाह-पाकस्य षः ष्ट्रव्रित इतीवर्थः । उकणो णो वृद्ध पर्थः । जल्पतीत्येवंशीलः । जल्प व्यक्तायां वाचि । जल्पाकः ॥ भिक्ष भिक्षायार । भिक्षाकः कुट्ट छेदने । लुण्ठ स्तये । चौरादिकाविमौ । कुट्टाकः । लुण्ठाकः । वृञ् वरणे । वृङ संभक्तौ । वराकः ॥ सान्ताशंसभिक्षिभ्य उः। सः प्रत्ययस्तदन्तो धातुः सान्त उच्यते । कर्तुमिच्छति चिकीर्षतीति सप्रत्यये द्वित्वादि। यः से इतीत्वम्। से दीर्घ इति दीर्घः।ऋत इरितीर। वो वि हसे इति दीर्घः । पत्वम् । चिकीर्षति जातम् । उप्रत्यये यत इत्यल्लोपः। चिकीर्षुः ॥ आङः शसि इच्छायाम् । यमेव गृह्यते न तु शंसु स्तुतौ आङा सह निर्देशात् ।। आशंसुः। भिक्ष भिक्षायाम् भिक्षुः । लष कान्तौ । उकण् । लाषुकः॥ पत्ल पतने । पातुकः ॥ पद गतौ । पादुवः ॥ ष्ठा गतिनिवृत्तौ । आतो युगिति युक् । स्थायुकः।। भू सत्तायाम् । भावुकः।। वृषु सेचने । उपधाया लघोरिति गुणः । वर्षकः ॥ हन हिंसागत्योः। हनो घदिति वत् । घातुकः ॥ कमु कान्तौ । कामुकः॥ गम्ल गतौ। गामुकः ॥ शू हिंसायाम् । शारुकः ॥