SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ (२४६) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (सुबोधिनी)-भविष्यति स्यप् शतृशानपरः ।। भविष्यत्स्यबन्ताद्धातोः परयोरात्पयोः स्थाने शतृशानौ वा स्तः ॥ करिष्यतीति करिष्यन् । सिसतेतीट् । करिष्यते इति करिष्यमाणः ॥ (ताच्छील्यवयोवचनशक्तिष्वानश्) भोग भुञ्जानः । कवचं बिभ्राणः । शत्रु निघ्नानः॥ __ (सुबोधिनी)-ताच्छील्यवयोवचनशक्तिष्वान ॥ ताच्छील्यं तत्स्वभावता । वयो यौवनादिः । शक्तिः सामर्थ्यम् । एषु द्योत्येषु धातोः कर्तरि आनशू स्यात् ॥ आनश्प्रत्ययमाह-शिवाच्चतुर्वत्कार्यम् । परस्मै पदिभ्योऽप्यानश् स्यादेतदर्थमिदम् । भुनक्तीति । रुधादित्वान्नुम् । नमसोऽस्येत्यलोपः भुञ्जानः । बिभर्तीति बिभ्राणः । हन्तीति । गमामित्युपधालोपः। हनो ने इति हस्य घः। निघ्नानः॥ (तत्त्वदी०)-ताच्छील्य इति ॥ ताच्छील्यं तत्स्वभावता । वयो यौवनादिः । शक्तिः सामर्थ्यम् ॥ पदानियमोऽत्र ॥ (इचार्योस्कृच्छिणि कर्तरि शतृ ) इङ् ध्ययने । अधीयन् । धृ धारणे ज्यन्तः । धारयन् ॥ __ (सुबोधिनी )-इधार्योरकृच्छिणि कर्तरि शतृ ।। अकृच्छः सुखसाध्यो धात्वर्थः। आभ्यां शतृप्रत्ययः स्यादकृच्छिणि कर्तरि । पुनः शतृप्रत्ययमाह-इङ आत्मनेपदित्वाच्छतृप्रत्ययो न सिद्धयतिधारयतेराप आत्मगामिनि क्रियाफले शतृप्रत्ययो न सिध्यति तदर्थोऽयमारम्भः । इङ अध्ययने । अर्ध ते इति । अदादित्वादपो लुकू । नुधातोरितीय । अधीयन् । धारयते इति अप । धारय त् ॥ (तत्त्वदी०) इङ् ॥ अकृच्छ्रः सुखसाध्यो धात्वर्थः सोऽस्सास्तीत्यकृच्छ्री । ञ्यन्तत्वादुमयपदित्वेनोभयप्राप्तौ शत्रेव यथा स्यादित्येतदर्थमिदम् ॥ (द्विषः शत्रौ) द्विष अनीता द्वेष्टीति द्विषन् ।। (सुबोधिनी)-दिषः शत्रौ ॥ द्विष अप्रीतौ । अस्मा च्छत्री वाच्ये शतृप्रत्ययः स्यात् ॥ द्वेष्टीति द्विषन् । (अर्ह पूजायाम् ) अर्हन् ॥ (सुबोधिनी)-अर्ह पूजायाम् ॥ अर्ह पूजायामस्माच्छतृप्रत्ययः स्यात्पूजायामर्थे । अर्हतीति अर्हन् । . ( तत्त्वदी०)-अर्ह इति ॥ पूजायां किम् । अर्हति चौरो व ॥ (शीले तृन् ) कटं कर्ता । हृञ् । हर्ता ॥ (सुबोधिनी)-शीले तृन् ॥ तृन्प्रत्ययमाह-नकारः स्वरार्थः । इतः पं वक्ष्यमाणाः प्रत्ययाः ताच्छील्यादिषु बोध्याः। करोतीत्येवंशीलः कर्ता कटम् ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy