________________
[ पूर्वकृदन्तप्रक्रिया ]
टीकाद्वयोपेता ।
( २४५ )
दीव्यन्त्यौ गङ्गायमुने ॥ द्विरुक्तानां जक्षादीनां च परस्य शतुर्तुम्न शौ वा ॥ ददत् । दधत् ।
( सुबोधिनी ) - अप्ययोरान्नित्यम् ॥ अश्यप्रत्ययाभ्यां परस्य शत्रुर्नित्यं नुम् स्यात् ईपि ईकारे च ॥ भवनीति पुंसि भवन् भवन्तौ । स्त्रियां तु भवन्ती । क्लीबेतु भवत्, भवती, भवन्ति ॥ दीव्यतीति 'य्वोविं हसे' इति दीर्घः । दीव्यन, दीव्यन्तौ । स्त्रियां तु दीव्यन्ती । क्लींबे तु दीव्यत्, दीव्यती, दीव्यन्ति ॥ ददातीति दधातीति चहादेश्चेति द्वित्वादि । दादेरित्यालोपः । ददत् सः । ददती स्त्री । ददत् ददती, ददतिददन्ति ॥ दधत् सः । दधती स्त्री । दधत् दधती, दधति - दधन्ति ॥
(विदेर्वा वसुः) वेत्तेः परस्य शतुर्वा वसुरादेशः ॥ विद्वान् विदन् ॥
(सुबोधिनी) - विदेर्वा वसुः ॥ वसोरुदित्करणं वसोर्व उरित्युत्वार्थम् । नुम् तु स्थानिवत्त्वेनैव सिद्धः। वेत्तीति अपित्तादिर्डिंदिति । वसुशत्रोर्डित्त्वम् । ङित्त्वाद् गुणो न । विद्वान् विदन् । विदुषी स्त्री ॥
(तत्त्वदी ० ) - विदेवेंति । शतृवदेव ऋदित्त्वेन नुमि सिद्धे वसोरुदित्करणं वसुग्रहणेन कसोरपि ग्रहणार्थम् ॥
( माझ्याक्रोशे ) भाजीवन् ॥
( सुबोधिनी) - माङया कोशे | माङयुपपदे निन्दायामर्थे धातोः शतृप्रत्ययः स्यात् ॥ माङि सिरेवेति लुप्राप्ते लविधिः । जीव प्राणधारणे । माजीवन् ॥
(लक्षणहेत्वोः क्रियायाः ) शयाना भुञ्जते यवनाः । अर्ज प्रतियत्ने चुरादिः । अर्जयन्त्रसति ॥
(सुबोधिनी) - लक्षणहेत्वोः क्रियायाः ॥ क्रियायाः चिह्ने हेतौ चार्थे वर्तमानाद्धातोः शतृशानौ स्तः ॥ अ हेतुशब्देन फलं कारणं चोच्यते । शेरते इति । शीङो गुण इति गुणः । शयाना भुञ्जते यवनाः । यवनकर्तृकभोजनस्य शयनं लक्षणम् ॥ अर्ज प्रतियत्ने चुरादिः । अर्तयतीति अर्जयन् वसति । अर्जनार्थो वास इत्यर्थः ॥
( तत्त्वदी ० ) - शयाना इति । अत्र शयनं भोजनस्य लक्षणम् ॥ अर्जयन्निति ॥ अर्ज प्रतियत्ने चुरादिः । अर्जना वास इत्यर्थः । लक्षणहेत्वोः किम् । पचति पठति च ॥ क्रियायाः किम् ॥ द्रव्यगुणयोर्लक्ष मा भूत् । यः कम्पते सोऽश्वत्थवत्प्लवते तलघु । हन्तीति पलायते वर्षतीति धावतीत्यत्र इतिना हेतुत्वस्य द्योतितत्वान्न ॥
(भविष्यति स्यप्रशतृशानपरः ) हन्नृतः स्यपः । करिष्यन् ।
करिष्यमाणः ॥