________________
(२४४) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया द्वित्वादिाणबादौ पूर्वस्येति पूर्वस्य संप्रसारणम्।यजामति परस्य संप्रसारणम् । सवर्णे दीर्घ इति दीर्घे कृते एकस्वरत्वादिटाघसादेरिति षः। ऊषिवान्। ऊषुषी स्त्री । 'अध्यूषुषस्तामभवज्जनस्य' इति माघः । श्रु श्रवणे । शुश्रुवान् । शुश्रुषी स्त्री ॥
(तत्त्वदी०)-बभूवानिति॥केवलस्यैकरवरत्वेऽपि कृतद्वित्वा तदभावात्। एतौ छन्दस्येवेति पाणिनीयानुसारिणः । भाषायामपीत्यन्ये ॥
(शतृशानौ तिप्तेवत्कियायाम ) क्रियायां गम्यमानायां धातो: शतृशानौ भवतस्तौ च तिवत् ॥ पचन्नास्ते ॥ पठस्तिष्ठति । गायन्नागच्छति ॥
(सुबोधिनी)-शतृशानौ तिप्तेवत् क्रियायाम ॥ शतृशामप्रत्ययावाहउभयोः शित्त्वाच्चतुर्वत्कार्यम्।ऋदित्त्वात्पुंसि व्रितो नुमिति नुमास्त्रियां तु ष्टवित इतीप। पचतीति । अप् । पचन् । विक्लित्त्यनुकूलवर्तमानव्यापाराश्रयश्चैत्रः ॥
(तत्त्वदी०)-शतृशानाविति ॥ परस्मैपदिभ्यः शतृ आत्मनेपदिभ्यः शान उभयपदिभ्यस्तूभयम् । .. (मुगानेऽतः) अकारस्याने मुगागमः स्यात ॥ पचमानः पठति । मन्वानः । कुर्वाणः । दादेरिः। पीयमानः सोमो भवता।दयिमाना गौः __ (सुबोधिनी)-मुगानेतः॥ अदन्तस्य मुगागमः स्यादाने परे ॥ पचते इति पच. मानः। मनुते इति मन्वानः। कुरुते इति कुर्वाणः। उभयत्र उप । ङित्यदुरित्यत उत् ॥ पीपाने । दीङ्क्षये । देवादिकाविमौ । अथवा पा पाने इदाञ् दाने । आभ्यां कर्मणि शानप्रत्यये कृते यक चतुर्विति यक । दादेरिरितीत्वम् । ये इति दीर्घादीयमानः । पीयमानः॥
(आसेरान ई.) आसेः परस्यान ईः स्यात् ॥ आसीनः॥ (सुबोधिनी)-आसेरान ईः ॥ आनस्य आत ईत्वम् ॥ आस उपवेशने।आस्त इति आसीनः॥ (तत्त्वदी०)-आसेरान ईआनस्य आ तस्य आनः क्व इतिवदधातोरप्यालोपः कचित्।।
(वाऽऽदीपोः शतुः)अवर्णात्परस्य शतुर्वा नुमीकारे ईपि च परे । तुदन् सः । तुदती-तुदन्ती कुले स्त्री वा ॥
(सुबोधिनी)-वादीपोः शतुः॥ अवर्णात्परस्य शाप्रत्ययस्य नुम् वा स्यादी पि ईकारे च ॥ तुदतीति तुदन्, तुदन्तौ,तुदन्तः । स्त्रियां तु तुदती तुदन्ती । क्लीवे तु तुदत, तुदती-तुदन्ती, तुदन्ति ॥
(अप्ययोरानित्यम् ) अप्प्रत्यययप्रत्ययसंबन्धिनोऽवर्णात्परस्य शतुर्नुनित्यमीकारे ईपि च ॥ भवन साभवन्ती। दीव्यत् । दीव्यन्ती ।