________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२४३) (गमहनविदविशदृशां वा) बभूवान् । भुवो वुक् । बभूवुषः । बभूवुषा । अद भक्षणे । आदिवान् । वस्योत्वे इडभावः। आदुषी । ऋ गतौ । आरिवान् । डुदान दाने । ददिवान् । ददरिद्रिवान् । जज्ञिवान् । जक्षिवान् । जग्मिवान्-जगन्वान् । जग्मुषः । जटिनवान्जघन्वान् । जघ्नुषा । विविदिवान-विविद्वान् । विविदषः । विविशिवान्-विविश्वान् । ददृशिवान्-ददृश्वान् । ईयिवान् । सेदिवान् । ऊपिवान् । शुश्रुवान् । शुश्रुतुषः॥
(सुबोधिनी)-गमहनविदविशदृशां वा ॥ एभ्यः परस्य वसुप्रत्ययस्येडा स्यात् ॥ विशिना साहचर्यात् विदल लाभे इत्यस्य ग्रहणम्। भूसत्तायाम् । बभूवान्, बभूवांसौ । शसादौ तु वसोर्व उरित्युत्वे कृते भुवो वुगिति वुक् । बभूवुषः । बभूवुषा। बभूवद्भयामित्यादि । बभूवुषी स्त्री ॥ अद भक्षणे । द्वित्वहसादिशेषपूर्वदीर्घसवर्णदीर्येषु कृतेषु कृते द्वित्वेऽप्ययमेकस्वर एंवति इड् भवति।आदिवान् । वस्योत्वे कृते इडभावो भवति । निमित्ताभावे नैमित्तिकस्याप्यभाव इत्युक्तत्वात् । आदुषी स्त्री ॥ ऋगतौ । गुणोऽति गुणे कृते द्वित्वादिषु कृतेष्वप्येकस्वर एवेति इड् भवति । आरिवान् । आरुषी स्त्री ॥ डुदाज़ दाने । कृते द्वित्व नायमेकस्वरः। अनेकस्वरत्वादिनिषेधे प्राप्त सूत्रे आदन्तग्रहणादिड् भवति । आतोऽनपीत्यालोपः । ददिवान् । ददुषी स्त्री ॥ दरिद्रा दुर्गतौ । आदन्तग्रहणादिट। आतोऽनपीत्यालोपः । ददरिद्रिवान् । ददरिद्रुषी स्त्री । अद भक्षणे । सिसयोरदेघस्ल इति लिटि वा घस्ल आदेशः । द्वित्वे कृते नायमेकस्वरः । सूत्रे घसम्रहणादिट् । उपधालोपात्प्रागेव द्वित्वम् । पश्चाद्गमा स्वरे इत्युपधालोपः । घसादेः ष इति षत्वम् । खसे चपा इति घस्य कः । जक्षिवान् । जक्षुषी स्त्री ॥ गम्ल गतौ । गमादीनां चतुर्णामिड्डा । द्वित्वादि । गमामित्युपधालोपः। जगामेति जग्मिवान् । इडभावे मो नो धातोरिति मस्प नः । जगन्वान् । जग्मुषी स्त्री। श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इति रघुवंशे ॥ हन हिंसागत्योः । द्वित्वादि । गमामित्युपधालोपः । हनो ने इति हस्य घः । जन्निवान् । इडभावे हन्तेरिति परस्य हस्य घाजघन्वान् । जघ्नुषी स्त्री ॥ विद्ल लाभे । विविदिवान्।इडभावे विविद्वान् । विविदुषी स्त्री ॥ विश प्रवेशने । विविशिवान्-विविश्वान् । विविशषी स्त्री॥ इण् गतौ । द्वित्वम् । इणः परस्य वसोरिट निपात्यते। द्वित्वे सत्येकस्वराभावाद्विधिरयम् । इणः किति णादाविति पूर्वदीर्घः । सवर्णे दीर्घ इति सूत्रं बाधित्वा नित्यत्वादिणः क्ङिति स्वरे इति यः । वसोरिडागमस्य कित्स्वरस्य परत्र सत्त्वात् । ईयिवान् । ईयुषी स्त्री ॥षदल विशरणादौ । द्वित्वादि । लोपः पचामित्येत्वपूर्वलोपौ । इंट् । सेदिवान् । सेदुषी स्त्री । 'निषेदुषीमासनबन्धधीरः' इति रघुवंशे ॥ वस निवासे ।