________________
(२४२)
सिद्धान्तचन्द्रिका । पूर्वकृदन्तप्रक्रिया ] आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च क्तः । ग्रामं यातः सः । ग्रामो यातस्तेन। भुजेः कर्मणि क्तः । तेन भुक्तमन्नम् । कथं तर्हि "भुक्ता ब्राह्मणाः पीता गावः" इति । उच्यते । भुक्तमस्त्येषामिति अस्त्यर्थं अः॥ - (तत्त्वदी०) मुकुन्दस्येत्यादि॥ आस्यतेऽस्मिन्नित्यासितमास नमित्यर्थः । यायतेऽस्मिन्निति यातम् । भुज्यतेऽस्मिन्निति भुक्तम् । भाजनमित्यर्थः। त्रिष्वपि वर्तमाना' रार्थक्तस्येति कर्तरि षष्टी ।।
(जीर्यतेरत) जरन्, जरन्तौ ॥ सुबोधिनी)-जीर्यतेरत ॥ जृष वयोहानौ। अस्माद्भतेऽथे अतृ प्रत्ययः स्यात् ।। अतृप्रत्ययमाह-ऋदित्त्वाद् वितो नुमिति नुम्।ऋतो गुणे कृते नामत्वात्स्यादौ संयोगान्तस्येति तलोपः । तलोपस्यासिद्धत्वान्नोपधाया इति दीघों न भवति । ता जरन् । स्त्री जरती। क्तक्तवत्वोः जर्णिः । जीर्णवान् ॥ __ (कसुकानौ णबेवत् ) धातोरतीते काले एतौ भवतस्तौ च यथाक्रम णबेवत् ॥ द्वित्वम् । संयोगान्तस्य लोपः ॥ चकृवान् । वसोर्व उः । चक्रुषः । चक्रुषा । वसां रसे । चकृवद्याम् । चक्राणः । भेजिवान् । जजागृवान् । द्वित्वे सत्येकस्वरादादन्तासेश्च वसोरिट् नान्यस्मात् ॥
(सुबोधिनी) कसुकानौ णबेवत्॥भूतसामान्ये कसुकानों प्रत्ययावाह-कसोः ककारो गुणनिषेधार्थः। उकारस्तु पुंसि ब्रितो नुमिति नुमर्थः । स्त्रियां तु ष्ट्रवित इतीबर्थः । कानप्रत्ययस्य कित्करणं तिस्तिराण इत्यत्र ऋसंयो आदित्यकित्वाद् गुणस्य निषेधार्थम् । णवादिपर यत्कार्यं द्वित्वादि तत्सर्वमनयोः परयोरपि स्यात् । डुकृञ् करणे। द्वित्वादिना चकृवसिति जाते नामसंज्ञायां स्यादिः । सन्महत इति पुंसि पञ्चसु दीर्घः । क्लीवे तु शौ दीर्घः। संयोगान्तस्येति सलोपः । चकृवान्, चकृवांसौ, चकृवांसः। चकृवांसम्,चकृवांसौ, शसादौ तु वसोवे उरित्युवे ऋ रमिति चक्रुषः। चक्रुषा। वसां रसे इति सस्य दत्वम्।चकृवद्भयाम्, चकृवद्भिरित्यादि। स्त्रियां तु ष्टवित इतीप् । वसोर्व उरित्युत्वे षत्वे च चऋषी । क्लीवे तु चकृवत, चकृषी, चकृवांसि ॥ भज सेवायाम् । भेजिवान् । भेजुषी स्त्री॥जागृ निद्राक्षये । जजागृवान्।जजाग्रुषी स्त्री। द्वित्वे सत्येकस्वरादादन्ताद् घसेश्व वसोरिट् नान्यस्मात् । दित्वे कृते सत्येकस्वराद्धातोरादन्ताद्धातोर्घसेश्च परस्य वसोरिट् स्यात् नान्येभ्यः परस्प वसोः । कृतेऽपि द्वित्वे एकस्वरा ये धातवोऽवशिष्यन्ते तेभ्य इत्यर्थः । हबक्त्योरिति निषेधं बाधित्वा क्रादेरिति नियमात्सर्वत्र प्राप्तस्येटो नियमः॥
(तत्त्वदी०)-णबेवदिति ॥ यथा परस्मैपदिभ्यो णप् तथा वसुः। यथाऽऽत्मनेपदिभ्य ए तथा कानः । द्वित्वे सतीति ॥ द्वित्वे कृते सति एकस्वरो यस्तस्मादित्यर्थः ॥