________________
[ पूर्वकृदन्तप्रक्रिया ] टीकादयोपेता।
(२४१) शब्दन। घुष्टोऽविशब्दने इति विशब्दनेऽर्थे नित्यमिटि प्राप्ते विकल्पो निपात्यते।संघुष्टःसंघुषितः । स्वन शब्दे । अमान्तस्येति दीर्घः । आस्वान्तः-आस्वनितः। आपूर्वस्य स्वनेर्मनोऽभिधानेऽप्ययं विकल्पः परत्वात्।आस्वान्तम् आस्वनितं वा मनः।हृषु अलीके। अस्योदित इति क्त्वायां वेटकत्वात् कचिद्वेट इतीनिषेधे प्राप्ते, हृष तुष्टौ सेटत्वादस्य नित्यमिटि प्राप्ते विकल्पो निपात्यते । उभयोरिह ग्रहणम्। हृष्टं-हृषितं लोम। हृष्टोहृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः ॥ चाय पूजानिशामनयोः । अस्य च्यादेशो निपात्यते वा क्ते । अपचितः-अपचायितः ॥ ओप्यायी वृद्धौ । अस्य पीति निपात्यते वा क्ते । आदीदित इतीनिषेधः । यवयोर्वसे इति यलोपः । ल्वाद्योदित इति नत्वम् । प्यानः-पीनः स्वेदः। स्वाङ्गे नित्यम् । पीनं मुखम् । सोपसर्गस्य न । प्रप्यानः । आपूर्वस्य तु स्यादेव । आपीनः कूपः । आपीनमूधः॥।
(तत्त्वदी०) दान्तादय इति ॥ ञ्यन्ता इत्यर्थः । तूर्ण इति ॥ जित्वरा संभ्रम इत्यस्य । आदित्वमस्य मन्दफलम् । इटो वैकल्पिकत्वेन निपातनात् ॥
(हादेवस्वः किति ते) ह्लादी सुखे । प्रह्लन्नः॥ सुबोधिनी)-ह्लादेहस्वः किति ते ॥ हादी सुखे । आदीदित इतीन ॥ दस्तस्येति नत्वम् । प्रह्लन्नः ॥ ( तत्त्वदी०)-प्रह्लन इति ॥ हादी सुखे । ईदित्वान्नेट् ॥ (निनदीभ्यां स्नातेः सस्य षः कौशले) निष्णातः। नदीष्णः॥ (सुबोधिनी)-निनदीभ्यां स्नातेः सस्य षः कौशले ॥ आभ्यां स्नाते: सस्य षः स्यात् कौशले गम्ये ॥ शास्त्रेषु निष्णातः कुशलः । नद्यां स्नातो नदी ष्णः। नदीस्नाने कुशलः । नाम्नि चेति डः॥ (तत्त्वदी० )-निनदीभ्यामिति ॥ नदीष्ण इति ॥ नदीस्नाने कुशल इत्यर्थः ।।
(स्थैर्यगतिभक्षणार्थेभ्योऽधिकरणेऽपि क्तः) तथा च "मुकुन्दस्यासितमिदमिदं यातं रमापतेः।भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः॥"
( सुबोधिनी)-स्थैर्यगतिभक्षणार्थेभ्योऽधिकरणेऽपि क्तः ॥ एभ्य आधारेऽर्थे क्तः स्यात्॥अपिशब्देन यथाप्राप्तम्। "मुकुन्दस्यासितमिदमिदं यातं रमापतेः।भुक्तमतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥” द्रष्टुमिच्छन्ति दिदृक्षन्ते इति दिदृक्षवो गोप्य इत्यूचुः । इतीति किम् । मुकुन्दस्य कृष्णस्येदमासितम् । आस्यतेऽस्मिन्नित्यासितमासनम् । रमापतेर्विष्णोरिदं यातम् । यायतेऽस्मिन्निति यातं मार्गः। अनन्तस्य हरेरे तद्भक्तम् । भुज्यतेऽस्मिन्निति भुक्तं भाजनम् । मुकुन्दस्येत्यादिषु वर्तमानाधारार्थत्तस्य योग षष्ठी इति कर्तरि षष्ठी। पक्षेआसेरकर्मकत्वात् कर्तरि भावे चक्तः। आसितःसः।
१६