________________
(२४०)
सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] -- (अभ्यर्णमाविदूर्ये ) अभ्यर्दितमन्यत् ॥
(सुबोधिनी)-अभ्यर्णमाविदूर्ये ॥ अः परस्य क्तस्येण्न स्यादाविदूर्येऽर्थे । विशेषेण दूरं विदूरं नविदूरम् अविदूरम् अविदूरस्य भाव आविदूर्यम् ॥ अर्द गतौ याचने च । दस्तस्येति तदयो त्वम् । अभ्यर्णम् । नातिदूरमासन्नं वा ॥
(तत्त्वदी०)-आविदूर्ये इति ॥ विशेषेण दूरं विदूरं र तोऽन्यदविदूरं नातिदूरमासन्नं वा। सामीप्य इति तु नोक्तं संकोचात् ॥ . (क्षीरहविषोः पाके शृतम्) अन्यत्र श्राणं श्रपितं वा ॥
(सुबोधिनी)-क्षीरहविषोःपाके शतम् ॥ श्रयतेःश आदेशो निपात्यते । श्रा पाके । अदादौ चुरादौ घटादावदि पठ्यते।औ पाके भ्वादौ। अस्यापिकृतात्वस्येह ग्रहणम् । निपातनसामर्थ्याल्लक्षणप्रतिपदोक्तयोरिति परिभाषा नाश्रीयते । शृतं क्षीरं स्वयमेव । विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविभ्यामन्यत्तु भणम् । यलसंयोगादेरिति नत्वम् । श्रपितं शाकादि। मितां ह्रस्व इति ह्रस्वः॥
(तत्त्वदी०)-शतमिति ॥ श्राश्रपयत्योर्निपातनम् । श्राणमिति ॥ शाकादि ।। .. (दान्तादयो वा निपात्यन्ते )दान्तः-दमितः ।शान्तः-शमितः। पूर्ण:-पूरितः। दसु उपक्षये । दस्तः-दासितः । स्पष्टः-स्पाशितः। छन्नः-छादितः। ज्ञप्तः-ज्ञपितः । रुष्टः-रुषितः । आन्तः-अमितः । तूर्णः-त्वरितः। संघुष्टः-संतुषितः । आस्वान्त:-आस्वानितः । हृष् तुष्टौ। हृष्टम्-हृषितम् । अपचायितः-अपचितः । प्यानः-पीनः ॥
(सुबोधिनी)-दान्तादयो वा निपात्यन्ते ॥ दान्तादयः सप्त जिप्रत्यये कृते सतिं क्तप्रत्ययान्ता वा निपात्यन्ते॥शमु दमु उपशमे। मनीषिति मित्त्वादुपधाया ह्रस्वः । एषांसप्तानां निपातनादिडभावः । रिति जिलोप छ । जमान्तस्येति दीर्घः । दान्तः । शान्तः। पूरी आप्यायने । दिवादौ चुरादौ च । र इति तस्य नत्वम् । पूर्णः । दसु उपक्षये । स्पश बाधने । छद अपवारणे । एषां त्रयाणां वृद्धयभावो निपात्यते । दस्तः । छशषेति षत्वम् । ष्टुत्वम् । स्पष्टः । दस्तस्येति तदयं त्वम् । छन्नः।ज्ञपज्ञानज्ञापनयोश्चुरादिः। मित्त्वादुपधाया ह्रस्वः । ज्ञप्तः। पक्षेकृत इमीद। सेटोः क्तक्तवत्वोरिति जिलोपः । शमित इत्यादि॥रुषादिभ्यः पञ्चभ्यः क्तस्येड गमो वा निपात्यये । रुष रोषे। इषुसहेति वेदकत्वात् क्वचिद्वेट इति निषेधे प्राप्ते विकल्पो निपात्यते । रुष्टःरुषितः अमगत्यादिषु । अमरोगे इति चौरादिकस्तु नगृह्यते एकस्वरादित्यधिकारात्। जमान्तस्येति दीर्घः।आन्तः-अमितः। जित्वरा संभ्रमे। आदीदत इति निषेधे प्राप्ते इडविकल्पोनिपात्यते। ज्वरत्वरेत्यूः। र इति तस्य नत्वम् । तूर्ण:-त्वरितः॥ घुषिर् अवि