________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२३९) (तत्त्वदी०)-अन्यत्रेति॥अविनयादन्यत्रेत्यर्थः । धृषेरादित्वं चिन्त्यमिति कश्चित् । अन्यस्तु अविनयादन्यत्र भावकर्मणोष्टं धर्षितमित्यादौ विकल्पेटकत्वार्थमाह ॥
(दृढः स्थूलबलयोः) हितो दंहितोऽन्यः॥ (सुबोधिनी)-दृढः स्थूलबलयोः॥ स्थूलो मांसलस्तस्मिन्नर्थे । बलमस्यास्तीति बलः। अइको चेत्यः। तस्मिन् बलवत्यर्थे च दृह दृहि आभ्यां परस्य क्तप्रत्ययस्य ढत्वं . धातोरिडभावहलोपौ च इदितो नलोपश्च निपात्यते । दृढः ॥ ननु हो ढ इति ढत्व तथोर्ध इति धत्वे ष्टुत्वे च ढि ढ इति ढलोपे कृते दृढेति रूपसिद्धौ सत्यां किमर्थं ढत्वहलोपयोनिपातनम्। उच्यते।तथा हिंसति ढलोपस्यासिद्धत्वेनालघुत्वात् द्रढिमेत्यत्र र इमनीति रभावो न स्यात् ॥ परिद्रढय्य गत इत्यत्र परिद्रढीत्यस्मान्नामधातोः क्त्वाप्रत्यये क्यपि लघुपूर्वात्परस्य जेरिति बेरयादेशो न स्याच्च । अतोऽसिद्धत्वनिवृत्तये निपातनम् ॥ '(तत्त्वदी०)-स्थूलबलयोरिति॥बलमस्यास्तीति बलः।अइकावित्यः।मांसलोऽतिबलो दृढः ।।
(प्रभौ परिवृढः) वृह वृहि वृद्धौ। परिवृहितः परिवृंहितोऽन्यः॥ (सुबोधिनी)-प्रभौ परिवृढः ॥ प्रभौ वाच्ये वृह वृहि वृद्धौ आभ्यां परस्य क्तस्य ढत्वं धातोरिडभावहलोपौ च इदितो नलोपश्च निपात्यते । 'प्रभुः परिवृढो ऽधिपः' इत्यमरः॥ अत्रापि ढत्वहलोपयोनिपातनं वढिमा परिवढय्येत्यादिसिद्ध्यर्थ प्राग्वदेव ॥
(कृच्छ्रगहनयोः कषः) कष्टम् । कष्टो मोहः । कष्टं शास्त्रम् । कषितमन्यत् ॥
(सुबोधिनी) कृच्छगहनयोः कषः॥ एतयोरर्थयोः कषः परस्य क्तस्येन स्यात् ॥ स्यात्कष्टं कृच्छ्रमाभीलम्' इत्यमरः ॥ अत्र कष्टशब्देन दुःखं तत्कारणं च गृह्यते । कष हिंसायाम्। कष्टो मोहः। दुःखहेतुरित्यर्थः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः॥
(घुष्टोऽविशब्दने) घुष्टा रज्जुः अविशब्दने किम्।घुषितं वाक्यम्।
(सुबोधिनी)-घुष्टोऽविशब्दने-विशब्दनं प्रतिज्ञानं न विशब्दनमविशब्दनं तस्मिन्नर्थे घुषेः परस्य क्तस्येन स्यात् । घुषिर् शब्दार्थे भ्वादिः । घुपिर अविशब्दने चुरादिः । द्वयोरप्यत्र ग्रहणम् । ननु विशब्दनेऽर्थे इनिषेधाभावात् जिप्रत्यये उपधागुणे कृते सेटोः क्तक्तवत्वोरिति जिलोपे च घोषितमित्यपि स्यात् । अत्राहुः । विशब्दनथें चुरादेर्जिरेवानित्य इति ॥
(तत्त्वदी०)--घुषितमिति ॥ शब्देन प्रकटीकृताभिप्रायमित्यर्थः ।।