________________
(२३८)
सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (सुबोधिनी)-ऋणमाधमण्यें॥ऋ गतौ अस्मात् तस्य नत्वं निपात्यते॥अधर्म दुःखप्रदमृणमस्य सोऽधमर्णस्तस्य भाव आधमय तस्मिन्नाधमर्येऽर्थे। अधमर्णस्तु ग्राहकः' इत्यमरः ॥
( तत्त्वदी०) ऋणमाधमर्ण्य इति ॥आधमर्ण्य इति ॥ अधमे ऋणे अधममृण यस्येति वाऽधमर्णस्तस्य भावस्तस्मिन् । तेन चाधमर्ण्यव्यवहारो लक्ष्यते तथा चोत्तमर्णेऽपि प्रयोगः सिध्यति ॥
(क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसत्ताविस्पष्टस्वरानायासभृशेषु) क्षुब्धो मन्थः । स्वन शब्दे । स्वान्तं मनः। ध्वान्तं तमः । लगे संगे । लग्नं सक्तम् । म्लिष्टमविस्पष्टम् । रेभृ शब्दे । विरिब्धः स्वरः । फाण्टमनायाससाध्यः कषायविशेषः । बाहृ प्रयत्ने । बाढं भृशम् । अन्यत्र तु क्षुभितम् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । बाहितम् ॥
(सुबोधिनी) क्षुब्ध १ स्वान्त २ ध्वान्त ३ लग्न ४ गिलष्ट ५ विरिब्ध ६ फाण्ट ७ वाढानि ८ मन्थ १ मन २ स्तमः ३ सक्ता ४ विस्पष्ट ५ स्वरा ६ नायास ७भृशेषु ८॥ क्षुब्धादीन्यष्टावनिटकानि निपात्यन्ते मन्थादिष्वर्थेषु ॥ शुभ संचलने । तथोर्ध इति तस्य धः । 'झवे जबाः' इति भस्य बः। क्षुब्धः॥ स्वन ध्वन शब्दे। जमान्तस्येति दीर्घः । स्वान्तम् । ध्वान्तम्॥लगे नत्वमपि निपात्यते। लग्नाम्लेच्छ अव्यक्ते शब्दे । रेभृ शब्दे । अनयोरुपधाया इत्वमपि निपात्यते । छशषेति षत्वं ष्टुत्वम् । म्लिष्टम् । तथोध इति धः । झबे इति भस्य बः । विरिब्धः॥ फण गतौ । अमान्तस्यति दीर्घः। ष्टुत्वम् । णस्यानुस्वारो निपात्यते । फाण्टम् ।। बाह प्रया ते । हो ढ इति ढः। तथार्थ इति तस्य धः। ष्टुत्वम् । ढि ढ इति ढलोपे बाढम्। कथं ता क्षुब्धो राजेति। आगमजमनित्यमित्यागमजस्यानित्यत्वादिडभावः ॥
(तत्त्वदी०) क्षुब्धमित्यादि|क्षुब्धमित्यादीन्यष्टौ निपात्यन्ते मन्थादिष्वर्थविशेषेषु वाच्येवित्यर्थः ॥ मन्थः इति ॥ द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः मन्थन् दण्डश्च ।। . (धृष्टविशस्तावविनये) धृष्टः। विशस्तः । अन्यत्र धर्षितः। विशसितः॥
(सुबोधिनी)-धृष्टविशस्तावविनये ॥ अविनयेऽर्थे एतावनिटौ स्तः ॥ जिधृषा प्रागल्भ्ये । अस्य आदीदित इतीनिषेधे सिद्धेशसु हिंसायामस्य उदितः क्त्वोवेडिति क्त्वायां वेदकत्वात्क्वचिद्वेट इतीनिषेधे सिद्धे अनयोरविनये एवानिट्त्वं नान्यत्रेति नियमार्थ सूत्रम् । विनये तुर्षितः । शीस्विदिमिदीति तस्याकित्त्वाद्गुणः ॥