SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( २३७ नीरोगः । उपसर्गात्तु ॥ (चरफलोरत उत्ति किति) प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाधितः । चरः चूर्णः ॥ (सुबोधिनी) - अनुपसर्गात् फुल्लक्षीबकृशोल्लाघा निपात्यन्ते ॥ ञिफला विशरणे । क्तक्तवत्वोस्तस्य लत्वं निपात्यते ॥ चरफलोरत उत्ति किति ॥ एतयो-रस्य उत्स्यात् तादौ किति ॥ आदीदित इतीण न । फुलः । क्षीबृ मदे । कृश तनूकरणे - लाघृ शक्तौ । एषां त्रयाणां क्तस्य तलोपो निपात्यते । तलोपस्यासिद्धत्वात् प्राप्तस्येटो । Sभावश्च निपात्यते । ननु फुल्ल विकसने, लाघृ शक्तौ, आभ्यां पचादेर इत्यप्रत्यये इतराभ्यां नाम्युपधात्क इति कप्रत्यये फुल्लोल्लावक्षीवकृशाः शब्दाः सिद्धयन्ति किमनेन । उच्यते । फुल्तादिनिवृत्त्यर्थं सूत्रम् ॥ ( तत्त्वदी०) - अनुपसर्गादिति ॥ फुल्ल इति । तस्य लत्वं निपात्यते । 'लोध्रद्रुमं सानुमतः प्रफुलुम्।' ‘प्रफुल्लुराजीवमिवाङ्कमध्ये ।' इत्यादौ तु फुल्ल विकसने इत्यस्मात्पचाद्ये बोध्यम् । यद्व प्रस्य फुलेन समासः ॥ ( उत्फुल्लसंफुल्लौ च ) (सुबोधिनी) - उत्फुल्लसंफुल्लौ च ॥ उत्संपूर्वकावप्येतौ निपात्येते ॥ कथं तर्हि 'लोध्रद्रुमं सानुमतः प्रफुल्लम्' इति रघुवंशे । फुल विकसने प्रपूर्वादस्मात् पचादेरित्यप्रत्यये प्रफुल्ल इति । यद्यपि प्रफुल्लवदुत्फुल्लसंफुल्लावपि पचादेरित्यनेन सिद्ध्यतस्तथापि : उत्फुल्तः संफुल्त इति प्रयोगनिवृत्त्यर्थं सूत्रम् ॥ (तत्त्वदी० ) - उत्फुल्लेति ॥ यद्यपि प्रफुल्लवदेतयोरपि सिद्धिस्तथापि उत्फुल्त इत्यादिरूप -- वृत्त्यर्थमिदम् ॥ (वित्तो भोगप्रतीतयोः) वित्तं धनम् । वित्तः पुरुषः । अन्यत्र विन्नः ॥ ( भित्तं शकलम ) भिन्नमन्यत्र ॥ ( सुबोधिनी) - वित्तो भोगप्रतीतयोः ॥ भुज्यते इति भोगस्तस्मिन् भोगेऽथ प्रतीतः प्रसिद्धस्तस्मिन्प्रतीतेऽर्थे च विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते । दस्त स्यति नत्वे प्राप्ते निषेधः । विद्ल लाभे । वित्तः । विद्यतेर्विन्नः । विन्दतेर्वित्तः विन्नश्च । वेत्तेर्विदितः।विद सत्तायाम् । विद विचारणे । दैवादिकरौधादिकावेतावनिटयै । विद ज्ञाने । विद्ल लाभे । आदादि कतौदादिकावेतौ सेटौ । विद्ल लाभे अस्य तु गमहनावेदेति सुप्रत्यये वेकत्वात् क्वचिद्वेट इतीन ॥ भित्तं शकलम् ॥ भिदेः परस्य क्तस्य नत्वाभावो निपात्यते शकलेऽर्थे । दस्तस्येति प्राप्ते निषेधः । 'भित्तं शकलखण्डे वा इत्यमरः ॥ अन्यद्भिन्नम् । विदीर्णमित्यर्थः ॥ ( ऋणमाधम ) ऋतमन्यत्र ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy