________________
( १२६ )
सिद्धान्तचन्द्रिका | [ आख्याते त्र्यन्तप्रक्रिया ]
त्किमर्थमदन्तत्वमुच्यते । बोपदेवस्तु धातोर्नामिन इति वृद्धौ कृतायां रातो ञौ पुकि अर्थापयते इति रूपमाह । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि ॥ ॥ इति सुबोधिन्यां चुरादयः ॥
( तत्त्वदी ० ) - प्रयोजनान्तरमाह - अय्वृलोपिन इति ॥ अश्व इश्च उश्च आच तथा तान् लोपयतीति स तथा तस्य अङ्कार्य न । द्वित्वे सतीकारदीर्घत्वादि न ॥ गण संख्याने । संख्यानिमित्तो ज्ञानविशेषः संख्यानमेकत्वादि तेन च तन्निष्ठः क्रियाविशेषो लक्ष्यते ॥ अङ्क अङ्ग पदे लक्षणे च । लक्षणं चिह्नकरणम् ॥ इति तत्त्वदीपिकायां चुरादयः ॥ १० ॥
कृतायामिह टीकायां लोकेशकरशर्मणा । इयं दशगणी पूर्णा माननीया मनीषिभिः ॥
अथ त्र्यन्तप्रक्रिया ।
धातोः प्ररणे ॥ धातोः प्रयोजकव्यापारेऽर्थे ञिप्रत्ययः ॥ भवन्तं प्रेरयति । भावयति । भावयते । भावयचकार ।
(सुबोधिनी) -- धातोः प्रेरणे ॥ प्रयोजकः प्रेरकः स च चेतनाचेतनसाधारण्येन विवक्षितः । स च क्वचित्सिद्धः क्वचित् फलरूपः । देवदत्तः पाचयति, गमयतीत्यादौ सिद्धः । भिक्षा वासयति, संग्रामो वासयतीत्यादौ तु फलरूपः । तस्य व्यापारः प्रेरणम् । भृत्यादेर्निकृष्टस्य प्रवर्त्तना प्रेरणमाज्ञेत्यर्थः । धातोत्रिः प्रत्ययः स्यात्प्रेरेणsर्थे । ननु यदि धातोः प्रेरणे ञिर्भवति लोटू च तदा जेर्लोटश्च पर्यायता स्यात् । ततश्चेदानीं पृच्छतु भवानिति वक्तव्ये प्रच्छयतीति ञिप्रत्ययेनापि प्रयुज्येतेति चेन्मैवम् । प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा ञिप्रत्ययस्यार्थः । प्रयोज्यप्रवृत्त्यनुपहिता प्रयोजकप्रवृत्तिस्तु लोडर्थ इत्युभयोर्भेदः । उक्तं च । " द्रव्यमात्रस्य तु प्रैषे पृच्छादेलोंड विधीयते । सक्रियस्य यदि प्रैषस्तदा स विषयो णिचः ॥” भवन्तं प्रेरयति भावयति । ञित्स्वरितेत उभे इत्युभयपदम् । भावयते । भावयेत् । भावयेत । भावयतु । भावयताम् । अभावयत् । अभावयत । कासादिप्रत्ययादित्याम् । भावयांबभूव । भावयांचक्रे । जेरिति ञिलोपः । भाव्यात् । भावयिषीष्ट । भावयिता । भावयिष्यति । भावयिष्यते । अभावयिष्यत् । अभावयिष्यत ।
(तत्त्वदी ० ) -- दशगणीं निरूप्य स्वार्थनिप्रसंगात्प्रेरणार्थं त्रिं दर्शयति-- धातोः प्रेरणे ॥ प्रेरण चानेकविधम् प्रेषणाध्येषणतत्समर्थाचरणभेदात् । तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणमाज्ञेति यावत्। गुर्वादेः प्रवर्तनाध्येषणं प्रार्थनेति यावत् । तत्समर्थाचरणं तदनुकूलव्यापारकरणम् । तच्चानुमित्युपदेशानुग्रहान्नदानादिरूपम् । तत्र यस्यानुमति विनार्थे निवर्तते तस्य राजादेरनुमत्या प्रयोजकत्वम् । वैद्यादेस्तूपदेशेन पलायमानं निरोधेनानुप्रहेण चौरस्यान्नदानेन सर्वश्वायं प्रकरणादिलम्य: