________________
आख्याते त्र्यन्तप्र० ]
टीकाद्वयोपेता ।
(१२७)
1
सर्वत्रानुगतप्रेरणामात्रं ञ्यर्थः । अथ पृच्छतु मां भवानित्यत्रास्त्विति चदुच्यते । प्रयोज्यप्रवृत्त्युपहितप्रयु क्तिर्म्यर्थः । केवला तु लोडर्थ इति । उक्तं च- " द्रव्यमात्रस्य तु प्रेषे पृच्छादेर्लोड् विधीयते ॥ सक्रियस्य यदा प्रैषस्तदा स विषयो णिचः " इति । अथ कथं भिक्षा वासयति, कारीषोऽग्निरध्यापयतीत्यत्र ञिः,भिक्षादेश्वाचेतनतया प्रेरणस्य च चेतनधर्मत्वात् इति चेत् शृणु । अत्राप्पानुकूल्याचरणमेव प्रयोजकव्यापरित्वेनाध्यारोप्यते । यतो भिक्षा अपि प्रचुरा 1 वासं प्रयुञ्जते । तथा कारीषोऽग्निरेकान्ते निर्वाते प्रज्वलितः - शीतकृतमुपद्रवमध्ययनविरोधिनमपनीयाध्ययनेऽनुकूलो भवतीति । ञित्वादुभयपदमाह - भावयतीत्यादि ।
व्यञ्जनवत्यश्व लभ्यमाना
( असयोः पूर्वस्योकारस्येत्वम् पवर्गयलजकारेष्ववर्णपरेषु परतः ) अबीभवत् ॥ मूङ् बन्धने । मावयति । अमीमवत् ॥ यावयति । अयीयवत् ॥ अरीरवत् । लावयति । अलीलवत् ॥ अजीजवत् ॥
(सुबोधिनी)–असयोः पूर्वस्योकारस्येत्वं पवर्गय लजकारेष्ववर्णपरेषु. परतः ॥ द्वित्वपूर्वरूपस्य उत इत्वं भवति अवर्णः परो येभ्यस्तेऽवर्णपरास्तेषु पवर्गयलजेषु परेषु ॥ अवर्णपरेषु किम् । बुभूषति ॥ पवर्गयलजेषु किम् । ऊर्णुनुविषति ॥ भ्रू सत्तायाम् । एरङ् द्विश्चोत अङि कृते द्वित्वे च भूभू इति जातं बत उत्तरस्य वृद्धयावादेशौ ततोऽङ लघौ हस्वे कृते असयारिति पूर्वस्येत्वं ततो दीर्घः । अवीभवत् । अबीभवत ॥ मुङ् बन्धने । अमीमवत् ॥ यु मिश्रणे । अयीयवत् ॥ रुशब्दे । अरीरवत् ॥ लुञ् छेदने । अलीलवत् ॥ जुगतौ । सौत्रोऽयं धातुः । अजीजवत् ॥
(स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनामङ्क्षयोः पूर्वस्यत्वं वावर्णपरे धात्वक्षरे परे) असिस्रवत् - असुस्रवत् । अशिश्रवत्अशुश्रवत् | अदिद्रवत्-अदुद्रवत् । अपिप्रवत् - अपुप्र॒वत् । अपि प्लवत्- अपुप्लवत् । अचिच्यवत्-अचुच्यवत् । न रितः । अशशासत् । अड्डुढेोकत् ॥
( सुबोधिनी ) - स्रवतिशृणोतिद्रवातेप्रवतिप्लवतिच्यवतीनामङ्सयोः पूर्वस्येत्वं वावर्णपरे धात्वक्षरे परे ॥ सृ गतौ । श्रु श्रवणे । द्रु गतौ । प्रुङ प्लुङ् च्युङ् गतौ । अक्षरशब्दोऽत्रावर्णपरः ॥ अवर्णपरे किम् । शुश्रूषति ॥ अपिप्रवत्अपुप्रवत् । अपिप्लवत् - अपुप्लवत् । अचिच्यवत् - अचुच्यवत् ॥
( न्तात् ञिः ) चोरयति । अचूचुरत् ॥
( सुबोधिनी ) - यन्तात् ञिः ॥ स्वार्थञ्यन्ताद्धातोर्जिः स्यात् प्रेरणे ॥ अपवादत्वाद्वाद्धं बाधित्वा जेरिति ञिलोपः । चोरयति । लाड लघोर्हस्व इति ह्रस्वः