________________
(१२८)
सिद्धान्तचन्द्रिका। [ आख्याते ञ्यन्तप्र० ] लघोर्दीर्घ इति दीर्घः। नन्वग्लोपित्वाद् द्वयोरप्यसंभवः । ततश्च अचुचोरदित्येव रूपं स्यात् । उच्यते । अङ्गाक्षिप्तस्य अनिमित्तत्वेनाश्रयणान्नासंभवः॥
(तत्त्वदी.)अचूचुरदिति ॥ अत्र रिकारस्य लोपेऽपि अबलोपिनो नाङ्कार्यमिति निषधो न शक्यःअङाक्षिप्तत्य बेनिमित्तत्वेनाश्रयणात् । तथाहि । त्रिजातिरेका निमित्तत्वेनाश्रिता । तथा च तस्या एकत्वाद्गोबलीवर्दन्यायेन ज्याकृतेरन्यस्य लोपः प्रतिषेध षियत्वेनाश्रीयत इत्यर्थः । यतु कैश्चिदुक्तं परत्वादादौ वृद्धौ सत्यामैकारस्य लोपेऽवलोपित्वाभावादेव कार्यमिति तन्न । सर्वविधिभ्यो लोपविधिर्बलीयांस्तस्य सर्वसंमतत्वात् ॥
हनो घत ॥ हन्तार्घदादेश इण्वर्जिते णिति ॥ घातयति । अजीतत् ॥
(सुबोधिनी)-हनो घत् ॥ जिति णिति च प्रत्यये हन्तपदादेशः स्यात् इण्य. त्यये णाप्रत्यये च परे न ॥ घातः। घ॥घातकः । वुण । णिति किम् । हन्ता।
(तत्त्वदी०)-हनो घत् इति ॥ हनो घदादेश इत्यादिव्याखानं तु प्राचामनुरोधेन । व्याख्यानं त्वीदृशम् । हश्च न् चानयोः समाहारो हन् तस्य । घश्च त् च नयोः समाहारो घत् । हनो घ्न इत्यतो हन इत्यनुवृत्तेः हन्तेर्हस्य घो णिति तस्य न च तो भति णिति । न चेति निषेधादिण्वर्जनम् । एतेन हनो न इत्यतो हनोऽनुवृत्तेर्घत्वसिद्धश्चोभयं व्यर्थमित्युक्तिरपि परास्ता ।
(शदेरगतो तो जौ)शातयति ।अशीशतत्। गतौ तु शादयति। अशीशदत् । रातो औ पुक् ।।
(सुबोधिनी)शदेरगतो तो औ॥ शदेऔं तोऽन्तादेश : स्यात् न तु गतो । शातयात । गतौ तु गाः शादयति गोविन्दः गमयतीत्यर्थः ॥ ३ गतौ । अस्य रातो औ पुगित्यन्तरङ्गत्वादादौ पुक पश्चाद् गुणः॥
पुकि गुणः॥ अर्पयति । आर्पिपत् ॥ दापनि । अदीदपत ॥ धापयति । अदीधपत् ॥ स्थापयति ।
(सुबोधिनी )-पुकि गुणः॥ पुगागमे परे गुणो भवति । अपयति । लुङि स्वरादः पर इति पि इत्यस्य द्वित्वे जोरीत जिलोपे च आर्पिपत् ॥ डुदाञ् दाने । अङि लघाविति इत्वे ह्रस्खे च कृते लघोर्दीर्घ इति दीर्घत्वम् । अर्द दपत् ।। डुधाञ् धारणादौ । अदीधपत् ॥ ष्ठा गतिनिवृत्तौ । रातो जाविति पुकि स्पयति ॥
(तिष्ठतेरङ्युपधाया इत् ) अतिष्ठिपत् ।। (सुबोधिनी) तिष्ठतेरङयुपधाया इत् ॥ तिष्ठतेरुपधाचा इत्वं स्यात् अङ प्रत्यये । स्थापीत्यत्रात इत्वं ततो द्वित्वादि । अतिष्ठिपत् । तिश्तोति शितपा निर्देशो यड्लुङ्गानिवृत्त्यर्थः । तेन यङ्लुकि लुङि अतास्थपत ॥