________________
[ आख्याते ज्यन्तप्र०] टीकाद्वयोपेता।
(१२९) पादेर्यक् ॥ पाशोछोसोद्देव्येनवेञां युक् औ ॥ पाययति ॥ (सुबोधिनी)-पायुक् ॥ एषां युक् औ परे ॥ पा पाने । लुग्विकरणालुग्विकरणेति परिभाषया पा रक्षणे इति नेह गृह्यते । तस्य तु पालयतीति रूपम् ॥ शो तनूकरणे । छो छेदने । षो अन्तकर्मणि । हृञ् स्पद्धोयाम् । व्यञ् संवरणे । वे तन्तुसंताने ॥ पाययति ॥
(पिबतेरङि पूर्वस्येकार उपधालोपश्च ) अपीप्यत् ॥शाययति । अशीशयत् ॥ छाययति । अचिच्छयत् ॥ साययति । असीषयत् ॥ बाययति ॥ __ (सुबोधिनी)-पिबतेरङि पूर्वस्येकार उपधालोपश्च ॥ पिवतेः पूर्वरूपस्य इत्वमुत्तररूपस्योपधाया लोपश्च स्यात् अङि परे ॥ पायीत्यत्र पायशब्दस्य द्वित्वे हसादिः शेषे चेत्वमुत्तरत्राकारलोपः । इहाऽवलोपित्वादलघुत्वाच्च इत्वदीर्घयोरप्राप्तावीत्वम् । अपीप्यत् ॥ शाययति । अशीशयत्॥छाययति । ह्रस्वाभावान्न दीर्घः।अचिच्छयत् ॥ शावयति । अशीशयत् ॥ साययति । असीषयत् ॥ हाययति ॥
(हयतेय॑न्तस्याङ्सयोः संप्रसारणं युगभावश्च) अजूहवत्अजुहावत् ॥ व्याययति । अविव्ययत् ॥ वाययति । अवीवयत् ॥
(सुबोधिनी)-ह्वयतेय॑न्तस्याङ्सयोः संप्रसारणं युगभावश्च ॥ ह्वेञ संप्रसारणं युगभावश्च स्यात अड्सयोः परतः॥ बायीत्यत्र पूर्व संप्रसारणे युगभावे च कृत हू इत्यस्य द्वित्वादि उत्तरत्र उ वृद्धौ आवादशे च कृते कणरणति ह्रस्वे लघोरिति दीर्घ च अजूहवत् । ह्रस्वाभावे अजुहावत् ॥
(पातौ लुकू) पालयति । अपीपलत् ॥ (सुबोधिनी)-पातेऔं लुक् ॥ लुगागमः स्यात् । रातो जो पुगिति पुकोऽपवादः ॥ लुगागमस्य पुनिवृत्तिरेव फलम् । पावयतीति रूपस्य ‘पाल रक्षणे' इति धातुनापि सिद्धः ॥ (तत्त्वदी०) पातौं लुक् ॥ कित्त्वादन्ते । पुकोऽपवादः ।।
(प्रयोजकास्मये औ स्मयतेरात्त्वम् ) (सुबोधिनी)-प्रयोजकात्स्मये औ स्मयतेरात्वम् ॥ स्मयजनकः प्रयोजकश्चत्तस्मिन् आत्वं औ परे ॥
(तत्त्वदी०) स्मयतेरात्वम् ॥ मिङ् ईषद्धसने । एवं “विस्मापयन्विस्मितमात्मवृत्तौ” इत्यपपाठः । मनुष्यवाचेति करणादेव विस्मयात् । अन्यथा शानोऽपि स्यात् । ञ्यन्तात् जौ शता वा । विस्मापयते मनुष्यवाक् तया सिंहो विस्मापयन्निति ॥