________________
(१३०)
सिद्धान्तचन्द्रिका। [ आख्याते ज्यन्तप्र० ] (भीस्मिभ्यां ज्यन्ताभ्यामात् प्रयोजकाच्चद्भयस्मयौ) जटिलो विस्मापयते । व्यसिष्मयत ॥ (भियः स्वरस्यात्वं वा तदभावे षुक् जौ हेतोश्चद्भयम् ) । मुण्डो भापयते । भीषयते । अभिपत । अबीभिषत ॥
(सुवाधिनी)-भीस्मिभ्यां ज्यन्ताभ्यामात् प्रयोजकाच्चेद्भयस्मयो । भयस्मययोर्जनकःप्रयोजकश्चेत् ञ्यन्ताभ्यांभीस्मिभ्यामात्मनेपदंस्यात्॥भियःस्वरस्यात्वंवा तदभावे षुक औहेतोश्चेद्भयम्॥भयजनकः प्रयोजकश्चद्भियो वाकारः आवाभावे षुगागमश्च स्यात् औ॥ जिभी भये' इत्यस्यानेनात्वे रातोत्राविति पुकि च मुण्डो भापयते । भीषयते ॥ जटिलो विस्मापयते । प्रयोजकाद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति ॥
(रुहेनौ पोवा) रोपयति । अरूरुपत् । रोहयति । अरूरुहत् ॥ कल्पयति । अचीक्लपत्-अचकल्पत्॥वर्तयति । अवीवृतत्-अववर्तत् ॥ मार्जयति । अमीमृजत्-अममार्जत् ॥
(सुबोधिनी)-रुहेऔं पो वा ॥ रुहेर्हस्य वा पकारः स्यात् जौ परेरुह बीजजन्मनि प्रादुभोवे च।'रुप विमोहने' इति देवादिकस्यधातूनामनेकार्थत्त्वाजन्मनि वृत्ती सूत्रं स्पष्टार्थम्॥कृपू सामर्थ्य। उपधाऋवर्णस्येति ऋद्भावे अङि लघौ ह्रस्व इति पूर्वस्येकारः। लघोदीर्व इति दीर्घत्वे कृपो रोल इति लत्त्वे च अचीक्लपत्-अचकल्पत् ॥ वृतु वर्तने । अवीवृतद्-अववर्त्तत् ॥ मृजूष शुद्धौ । अमीमृजत् । पक्ष मृजेर्वृद्धिरिति वृद्धौ अममार्जत् ॥ __(तत्त्वदी० )रुहेरुह बीजजन्मनि प्रादुर्भावे च । रुप विमोहन इति दैवदिकस्यापि रोपयतीति सिद्धम् धातूनामनेकार्थत्वाजन्मनि वृत्तिः । सूत्रं तु स्पष्टार्थम् ।।
( इक्रीजीनामात्वं औ) अध्यापयति । अध्यापिपत् ॥
( अङ्सपरे औ इङो गा वा) अध्यजीगपत्॥ क्रापयति।अचिक्रपत् ॥ जापयति । अजीजपत् ॥
(सुबोधिनी)-इङ्क्रीजीनामात्वं औ । इङ अध्ययने । डुक्रीञ् द्रव्यविनिमये । जि जये ॥ अङ्सपरे औ इडे गा वा ।। अध्यजीगपत् । पक्षे स्वरादेः पर इति पिशब्दस्य द्वित्वे अध्यापिपत् ॥ अचिक्रपत् । अजीजपत् ।। (तत्त्वदी०)-इक्रोजीनाम् ॥ इङ् अध्ययने । डुक्रीञ् द्रव्यविनिमये । जि जये ॥