________________
[ आख्याते ज्यन्तप्र०] टीकाद्वयोपेता ।
(१३१) (ह्रीब्लीगक्नूयीक्ष्मायीणां जो पुक् ) द्वेपयति ।अजिद्विपत् ।। ब्लेपयति । अबिब्लिपत् ॥ रेपयति । अरीरिपत् ॥
(सुबोधिनो)-बीब्लीरीक्नूयीक्ष्मायीणां औ पुक् ॥ एषां पुक्ौ । ह्रीं लज्जायाम् । ब्ली वरणे । रीङ् क्षये । क्नूयी शब्दे उन्दे च । मायी विधूनने ॥
(तत्त्वदी०) हेपयतीति॥उपधाया लघोरित्यत्रोपधाया इत्यस्य योगविभागाद्धातोरुपधाया नामिनो गुणो भवति । तेन गुरोरपि भवति ॥
( यवयोर्वसे हकारे च लोपः) क्नोपयति। अचुक्नुपत्॥क्ष्मापयति । अचिक्ष्मपत् ।। __ (सुबोधिनी)-यवयोर्वस हकारे च लोपः ॥ यकारवकारयोर्लोपः स्यात वसप्रत्याहारे हकारे च परे ॥
(दुषेनौं दी? वा चित्तविरागे) चित्तं दूषयति दोषयति घा कामः। अदूदुषत् ॥ __ (सुबोधिनी)-दुषेनौ दीर्घः ॥ दुष्यतेरुपधाया ऊत्स्यात् औ । दूषयति । दुष वैकृत्ये दिवादिः। जो किम् । दोषः। वाचित्तविरागे । चिती संज्ञाने इत्यस्मात् क्तः। चित्तम् । विरागोऽप्रीतता । दूषयति-दोषयति वा चित्तं कामः । चित्तं दुष्यात । स्नानसंध्यादौ विरक्तं भवति । तत् प्रयुङ्क्ते इत्यर्थः ।
(तत्त्वदी०) दु० वाचित्त०॥वाक्यभेदेन व्याख्येयम् |दुवेर्दी? जौ। दूषयति । ततश्चित्तविरागे वा । चित्तविरागोऽप्रीतता ॥
(स्फायो वः)ो ॥ स्फावयति। अपिस्फवत् ॥ अड्ड उद्यमे । अडुयति । आड्डित् ॥ अर्च पूजायाम् । अर्चयति। आर्चिचत् ॥ उन्दी क्लेदने । उन्दयति । औन्दिदत् ॥ उब्ज आर्जवे । उब्जयति । औब्जिजत् ॥ द्रा कुत्सायाम् । द्रापयति अदिद्रपत् ॥
(सुबोधिनी)-स्फायो वः॥ स्फायो वत्वं स्यात् जो परे ॥ अड्ड उद्यमे । स्वरादः पर इति डिशब्दस्य द्वित्वे आड्डिडत् ॥ अर्च पूजायाम् । आर्चिचत्॥ एध वृद्धौ । उपधाहस्वो द्वित्वात्प्रागेव भवति । ततो धिशब्दस्य द्वित्वे मा भवानिदिधत् ॥ उन्दी क्लेदने । दिशब्दस्य द्वित्वे औन्दिदत् ॥ उब्ज आर्जवे । उपदेशे दकारोपधोऽयम् । द्वित्वविषये स्वरात्पर इति निषेधात् जिशब्दस्य द्वित्वे कृते ततो निपातनादस्य वः॥ द्रा कुत्सायाम् । पूर्वमुपधाहस्वः। ततो द्वित्वे इत्वे च अदिद्रपत् ॥
(रभिलभोः स्वरे नुम्नव ब्लिटोः ) रम्भयति । अररम्भत् ।। डुलभ प्राप्तौ । लम्भयति । लम्भयते । अललम्भत् । हाययति ।