________________
[ आख्याते त्र्यन्तप्र०
J
( १३२ )
सिद्धान्तचन्द्रिका |
हाययते । अजीहयत् । स्मारयति । स्मारयते । असस्मरत् ॥ दारयति । दारयते । अददरत् ॥
(सुबोधिनी) - रभिलभोः स्वरे नुम् न त्वब्लिटोः। स्वरे किम्। आरब्धम् । अब्लिटोः किम् । रभते । रेभे । रभ रामस्ये । डुलभष् प्राप्तो । आरम्भत् । अललम्भत् ॥ वृद्धौ च । पूर्वाद्धिनोतेरिति सूत्रे न त्वङीत्युक्ते धत्वं ना अजीहयत् ॥ स्मृ चिन्तायाम् ।अङि लधाविति ह्रस्वः । स्मृदृत्वरेति पूर्वस्यात् । असस्मरत् ॥ दृ विदारणे । अत्रापि पूर्वस्यात् । अददरत् । तपरत्वसामर्थ्यादत्र लघोनं दीर्घः ॥
वेष्टिचेष्टयोः पूर्वस्यात्वं वाङि ) अविवेष्टत्-अववेष्टत् ॥ अचि चेष्टत्-अचचेष्टत् ॥ भ्राजू दीप्तौ । भ्राजयति । भ्राजयते । अबिभ्रजत्-अवभ्राजत् ॥
(सुबोधिनी) - द्वेष्टिवेष्ट्योः पूर्वस्यात्वं वाङि ॥ अनयोः पूर्वरूपस्यात्वं वा स्यादङ्प्रत्यये परे । वेष्ट वेष्टने । चेष्ट चेष्टायाम् । भ्राजू दी है । भ्राजभासेत्यादिना वा उपधाह्रस्वः । अविभ्राजत्-- अवभ्राजत् ॥
(कणरणभणश्रणलुपहेठिह्वेञ् बाणिलोटिलोठिलोपीनां वा ह्रस्वोऽङि ) अचीकणत - अचकाणत् ॥ व्यशिश्रणत् - व्यशश्राणत् ॥ अलुलुपत्-- अलुलोपत् ॥ अजीहिठत्-अजिंठत् ॥ अजूहवत्-अजुहावत् ॥ अबीबणत्- अबबाणत् ॥ अल्लुट - अलुलोटत् ॥ अलूलुठत्-- अलुलोठत् ॥
( सुबोधिनी ) - कणरणभणश्रणलु पहे ठिह्वेञ्बा णिलोटिलोठिलोपीनां वा । ह्रस्वोऽङि ॥ कण निमीलने । रण शब्दे । भण शब्दे । श्रण दाने । लुल छेदने । हेठ विबाधायाम् । ह्वेन स्पर्धायां शब्दे च । वन्तः शब्दे । लुट प्रतिघाते। लुठ छेदने । लोपीति ञ्यन्तनिर्देशः । लापीति पाठान्तरम् । लप व्यक्तायां वाचि । अचीकणत्-अचकाणत् । अरीरणत्- अरराणत् । अबी णत्-अवभाणत् । अशिश्रणत् - अशश्राणत् । अल्लुपत् - अलुलोपत् । अजीहिठत्-अजिठत् ॥
( स्वापेः संप्रसारणमङि ) असूषुपत् ॥
(सुबोधिनी) - स्वापेः संप्रसारणमङि ॥ ञिष्वप् शये । ञ्यन्तस्यास्य संप्रसारणं स्यादङि । इह संप्रसारणोत्तरं द्वित्वम् | असूषुपत् ॥
(श्वयन्तस्य
संप्रसारणं वासयोः) अशिश्वयत्-अशूशवत्॥ (सुबोधिनी) - श्वयतेऽर्यन्तस्य संप्रसारणं वाङ् सयोः॥ संप्रसारणं तदाश्रयं च कार्य बलवदिति वचनादृद्धेः पूर्वं संप्रसारणम् । अलघु वान्न दीर्घः । अशिश्वयत्अशूशवत् ॥