________________
[ आख्याते ज्यन्तप्र० ] टीकाद्वयोपेता।
(१३३) (जिघ्रतेरुपधाया इद्वाङि) अजिघ्रिपत्-अजिघ्रपत् ॥ . (सुबोधिनी)-जिघ्रतेरुपधाया इद्वाङि ॥ नापीत्यस्यात इत्वं वा स्यादङि परे । ततो द्वित्वादि ॥
(सिध्यतेरैहलौकिकेऽर्थे स्वरस्यात्वं औ) अन्नं साधयति । असीषधत् । अन्यत्र तपः सेधयति । असीषिधत् ॥ ___ (सुबोधिनी)-सिध्यतेरैहलौकिकेर्थे स्वरस्यात्वं औ॥ इहलोके भवः ऐहलौकिकः तस्मिन् ऐहलौकिकेऽर्थे सिध्यतेः स्वरस्यात्वं जौ। अन्नं साधयति निष्पादयतीत्यर्थः । सिध्यतरिति यनिर्देशाद्भौवादिकस्याग्रहणम् । ऐहलौकिके किम्। तापस: सिध्यति तत्त्वं निश्चिनोति । तत्त्वनिश्चयश्चात्मकविषयकः स च परलोकै उपयुज्यते। तं प्रेरयति तापसं तपः । लुङि असीषधत् । आत्वाभावे असीषिधत् ॥ ___ (तत्त्वदी० )-सिध्यतेरैहलौकिके इति॥इह लोके भव ऐहलौकिकस्तस्मिन्नित्यर्थः ।। अनं साधयतीति ॥ निष्पादयतीत्यर्थः । अन्यत्र । पारलौकिके इत्यर्थः । सेधयति । तापसः सिद्धयति ।हेयमुपादेयं च तत्वतो ज्ञातुकामः प्रवर्तते । तमपरः प्रयुङ्क्ते ज्ञानविशेषवन्तं करोतीत्यर्थः।।
(प्रजने वीयतेरात्वं वा औ) वापयति-वाययति वा गाः पुरो वातः गर्भ ग्राहयतीत्यर्थः ॥
(सुबोधिनी)-प्रजने वीयतेरात्वं वा औ॥वी गतिप्रजनादौआदादिकस्य यका निर्देशः। अत्र केचिदुत्प्रेक्षयन्ति । वेत्तेरिति वक्तव्ये यका निर्देशाद्वयेत्रोऽपि ग्रहणम् । तस्यापि यकि संप्रसारणे वीधातुना समानरूपत्वात् । अतो द्वयोरपि प्रजनेऽर्थे आत्वं वा स्यात् । तत्रात्वे तदभावे च यद्यपि व्यजो व्याययतीति रूपं तुल्यम् । पादेयुगिति पुकोऽपवादतया युग्विधानात् । तथापि ञ्यन्तात् किपि-व्याः, व्यौ, व्याः । आत्वाभावपक्षे–व्यैः, व्यायौ, व्यायः। इत्यस्ति विशेषः। सूत्रे विभाषाविधानसामर्थ्यास्पक्षेऽपि संध्यक्षराणामित्यात्वं न प्रवर्तते । रातो जो पुगिति पुक । वापयति।आत्वाभावे वाययति गाः पुरोवातः । गर्भ ग्राहयतीत्यर्थः॥
(तत्त्वदी०)-प्रजने वियतेरिति॥वीगतिव्याप्तिप्रजनकान्त्यसनखादनेष्वित्यस्य यका निर्देशः। अन्यथादादिकत्वेन यकारासंभवः।प्रजनो गर्भग्रहण तत्रेत्यर्थः॥वापयतीति। गर्भ ग्राहयतीत्यर्थः । वातेरनेकार्थत्वाद्यदि प्रजनोऽप्यर्थ उच्यते तदास्य वापयति वेतेस्तु वाययतीति सिद्धौ कृतमेतेन ॥
(इणो जौ वा गमिरबोधने ) गमयति । अजीगमत् । आययात । आयियत् ॥ घटादयो मितः । घट चेष्टायाम् । मितां ह्रस्वः घटयति ॥ व्यथयति । अविव्यथत् ॥ प्रथयति । अपप्रथत् ॥ प्रस बिस्तारे। प्रसयाति ॥ म्रद मर्दने । म्रदयति । अमम्रः