________________
( १३४ )
सिद्धान्तचन्द्रिका ।
[ आख्याते त्र्यन्तप्र० ]
दत् ॥ स्खद विद्रावणे । स्वदयति । अचिस्खदत् ॥ त्वरयति । अतत्वरत् ॥ ज्वर रोगे । ज्वरयति ॥ नट नृत्तौ । नटयति । अनीनटत् ॥ चक तृप्तौ । चकयति ॥ लगे संगे । लगयति ॥ ज्वल दीप्तौ । प्रज्वलयति ॥ स्मृ आध्याने । स्मरयति । असस्मरत् ॥ हृ भये । दरयति । अददरत् ॥ नृ नये । नरयति । अनीनरत् । श्रा पाके । श्रपयति । अशिश्रपत्
(सुबोधिनी) - इणो औ वा गमिरबोधने ॥ इणो गमिः स्याद्वा जौ अबोधनेऽर्थे ॥ अजीगमत् । बोधने तु । प्रत्याययति । प्रतिपूर्वस्येणो ज्ञानार्थता | स्वरादेः पर इति ञिसहितस्य द्वित्वम् । प्रत्याययत् ॥ घटादयो मितः । घट चेष्टायाम् । तत्फल तु मितां ह्रस्व इति ह्रस्वत्वम् । मितां यन्तानामिति णमि च वा दीर्घ इति च । त्वरत्यन्ता घटादयः षितश्च । षित्प्रयोजनं तु षिद्भिदामङित्यङ् । आवतः स्त्रियामित्याएं । तेन घटा व्यथेत्यादिरूपसिद्धिः । विघटयति । कथं तर्हि 'कमलवनोद्घाटनं कुर्वते ये' इत्यादि । शृणु । घटसंघात इति चौरादिकस्येदम् ॥ व्यथ दुःखसंचलनयाः । अविव्यथत् ॥ प्रथ प्रख्याने । अपप्रथत् । स्मृदुत्वरेति पूर्वस्यात् ॥ प्रस विस्तारे । अपिप्रसत् । अलघुत्वान्न दीर्घः ॥ म्रद् मर्दने । अमम्रदत् । स्मृदृत्वरेति पूर्वस्यात् ॥ स्खद विद्रावणे | अचिस्खदत् ॥ ञित्वरा संभ्रमे । अतत्वरत् । स्मृदृत्वरेति पूर्वस्यात् ॥ घटादयः षितः । षित्वादङ । त्वरा ॥ ज्वर रोगे । अजिज्वरत् । इणूप्रत्यये - अज्वारअज्वारि । णमुप्रत्यये – ज्वरं ज्वरं ज्वारंज्वारम् ॥ नट नृत्तौ । गात्रविक्षेपमात्रं नृत्तिः । अनीनटत् ॥ चक तृप्तौ । अस्य तृप्तिमात्रे मित्त्वम् परस्मैपदं च । अचीचकत् ॥ लगे संगे । अलीलगत् ॥ ज्वल दीप्तौ । अजिज्वलत् । ज्वलादेर्ण इति णप्रत्यये -ज्वालः ॥ स्मृ आध्याने। उत्कण्ठापूर्वकं स्मरणमाध्यानम् ॥ दृ भये । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । केचित्तु घटादौ स्मृदृत्वरेति सूत्रे च दृ इति दीर्घस्थाने हस्वं पठन्ति तन्नेति माधवः । यद्ययं हस्वान्तो भवेत्तर्हि शृदृप्रां ह्रस्वो वेति सूत्रे हस्वविकल्पविधायके ग्रहणमनर्थकं स्यात् । नृ नये । नयादन्यत्र नारयति ॥ श्रा पाके । श्रपयाते । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः ॥
(तत्त्वदी ० ) मितः ॥ के के पुनर्मित इत्याह- घटादय इति ॥
कस्तु
( मारणतोपण निशामनेषु ज्ञा ) ज्ञपयति ॥ ( कम्पने चलिः) चलयति शाखां वायुः । अन्यत्र शीलं चालयति ॥ ( मदी हर्षदैन्ययोः ) मदयति । हर्षदैन्ययोः किम् । मादयति ॥ ( ध्वन शब्दे ) ध्वनयति । अदिध्वनत् ॥
(सुबोधिनी) - माणतोषणनिशामनेषु ज्ञा ॥ एष्वेवार्थेषु जानातिर्मित् । शम आलोचनइत्यस्मान्निष्पन्नत्वान्निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये ।