________________
[ आख्याते व्यन्तप्र० ]
टीकाद्वयोपेता ।
( १३५ )
निशानेष्विति पाठान्तरम् । निशानं तक्ष्णिीकरणम् । पशुं संज्ञपयति मारयतीत्यर्थः । विष्णुं विज्ञपयति । संतोषयतीत्यर्थः । संज्ञपयति रूपम् । माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । यज्ञपयतेि शरम् । तीक्ष्णं करोतीत्यर्थः । कथं तर्हि 'विज्ञापना भर्तृषु सिद्धिमेति' इति 'नज्ज्ञापयत्याचार्यः' इति च । अत्र ज्ञाधातोर्यौ मित्त्वाद्रस्वेन भवितव्यमिति । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मत्त्वमिति मते तुज्ञा नियोगे इति चौरादिकस्य धातूनामनेकार्थत्वाद्बोध्यम् ॥ कम्पने चलिः ॥ चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः ॥ हरतीत्यर्थइति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः ॥ मदी हर्षदैन्ययोः ॥ मदयति ॥ हर्षयति लेपयति वा । दैन्यं करोतीत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयतीत्यर्थः ॥ ॥ ध्वन शब्दे ॥ ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः ॥
(तत्त्वदी०) -- मारणेति ॥ नारणं हिंसनम् । निशामनं चाक्षुषज्ञानम् । 'तज्ज्ञापयत्याचार्यः' 'विज्ञापना भर्तृषु सिद्धिमेति' इत्या रौ ज्ञापनसामान्ये मित्त्वाभावान्न ह्रस्वः ॥ कम्पने चलिः । चलयतीति शाखामिति शेषः । अन्यत्र शीलं चालयति । अन्यथा करोतीत्यर्थः ॥ मदयतीति ॥ अन्यत्र मादयति चित्तविरागमुत्पादयतीत्यर्थः ॥ ध्वनयतीति ॥ घण्टामिति शेषः । अन्यत्र ध्वानयति अस्पष्टाक्षरमुच्चारयतीत्यर्थः ॥
(जनीजष्कसुर मन्ताश्च ) जनयति । जरयति । नसु कौटिंल्ये दीप्तौ च । क्नसयति ॥
(सुबोधिनी) जनीजृषूक्नसुरञ्जोऽमन्ताश्च । जनी प्रादुर्भावे । नृषु वयोहानै । क्नसु हरणदीत्योः । त्रयोsपि दिवादयः । रञ्ज रागे । दैवादिको भौवादिकश्च । अमन्ताः ऋमिगम्यादयः । नृषिति पिन्निर्देशाज्जीयतेर्ग्रहणम् । नृणातेस्तु जारयाति ॥
( तत्त्वदी ० ) - अमन्ताश्च ॥ अम् अन्ते येषां ते शमादय इत्यर्थः ॥
(रजे मृगरमणे नलोपः ) रजयति मृगान् । अरीरजत् । अन्यत्र वस्त्रं रञ्जयति । अररञ्जत् ॥ शमयति ॥ दमयति ॥
(सुबोधिनी) - रञ्ज मृगरमणे नलोपः ॥ रर्नस्य लोपः स्यात् ञौ परे आखेटेऽर्थे । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः। रमणादन्यत्र तु रञ्जयति मृगान् तृणदानेन ॥ शमु दमु उपशमे । दैवादिकौ । अशीशमत् । अदीदमत् ॥ (तत्त्वदी०) रवित्यादि ॥ मृगरमणमाखेटः । मृगेति किम् । रञ्जयति पक्षिणः । रमणे किम् । रञ्जयति मृगान् तृणदानेन ।