________________
(१३६ )
सिद्धान्तचन्द्रिका । [ आख्याते ज्यन्तप्र० ] • (ज्वलहलह्मलनमामनुपसर्गाद्वा) ज्वलयति-ज्वालयति । ह्वल ह्मल चलने।ह्वलयति-हालयति । मलयति-हाल यति । नमयतिनामयति । उपसर्गे तु । प्रहलयति ॥ (सुबोधिनी)-ज्वलबलमलनमामनुपसर्गाद्वा ॥ ज्वळ दीप्ती, बल मल संचलने इति त्रायाणां पूर्व घटादौ पठितत्वान्नमेरमन्तत्वान्नित्य प्राप्ते विभाषेयम् । उपसर्गेषु नित्यं मित्त्वम्। प्रज्वलयति। कथं तर्हि प्रज्वालयति, रन्नामयतीति । घत्र न्तात् 'नाम्नो जिर्डित्करणे' इति औ बोध्यम् । कथं संक्रामयति, विश्रामयतीति च । मान्तस्य सेटो न वृद्धिरिति वृद्धिनिषेधात्।पनि क्रमः श्रम इत्येव भवतिं न तुं कामः श्राम इति । पूर्वोक्तसमाधानस्यात्रासंभवात् पृथकू प्रश्नः। शृणु । घञन्ताभ्यां क्रमश्रमाभ्यां स्वार्थेऽणि कामश्रामशब्दौ स्वीकृत्य ताभ्यां जिर्डिदिति जिप्रत्यये संक्रामयति विश्रामयतीति सिद्धम् ॥
(तत्त्वदी०)-अनुपसर्गाद्वेति ॥ तेनोपसृष्टानां मित्त्वमेव । प्रवालयत्युन्नामयतीति तु घान्तात्तत्करोतीति औ । संक्रामयतीति तु वा चित्तविराग इत्यतो वेत्यनु तेर्व्यवस्थया बोध्यम् ।
(ग्लास्नावनुवमांच)ग्लापयति-ग्लपयति ।नापयति-नपयति॥ वानयति-वनयात । वामयति- वमयति ॥ .( सुबोधिनी) ग्लास्नावनुवमां च ॥ अनुपसर्गादेषां मित्त्वं वा आद्ययोरप्राप्ते वनेर्घटादित्वात्प्राप्ते वमेरमन्तत्वाच्च प्राप्ते विभाषा । ग्लापयाति-ग्र पयति । स्नापयतिस्नपयति । वानयति-वनयति । वामयति-वमयति ॥
(न कम्यमिचमाम् ) कामयति ॥ अम गत्याम् । आमयति । आमिमत् ॥ चामयति ॥ (सुबोधिनी)-न कम्यमिचमाम् ॥ अमन्तत्वात्प्राप्तं मित्यमेषां न स्यात् ।। (शाम्यतिदर्शने मिन्न ) निशामयति रूपम् ॥
(सुबोधिनी)-शाम्यतिर्दर्शने मिन्न। निशामयति रूपम । अन्यत्र प्रणयिनो निशमय्य वधूः कथाः कथं तर्हि 'निशामय तदुत्पत्ति विस्तराद्गदतोमम' इति । शृणु शम आलाचने इति चौरादिकस्यैव । धातूनामनेकार्थत्वाच्छवणे वृत्तिः ।यथा शाम्यति निशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि श्रवणे भविष्यतीति । ___ (तत्त्वदी०)-दर्शने मिन्नेति ॥ निशामय तदुत्पत्तिमित्यादि तु म (लक्ष) आलोचन इत्यस्य, धातूनामनेकार्थत्वाच्छ्रवणार्थतापि ॥ ..
(यच्छति जनतोऽन्यत्र मिन्न) आयामयति । भोजने तु यमयति विप्रान् ॥